क्वाण्टम्‌ यान्त्रिकी विषयक- अनुसन्धानाय त्रयः वैज्ञानिकाः भौतिकीस्य नोबेलपुरस्कारं संयुक्तरूपेण प्राप्नुवन्ति
नवदेहली, 7 अक्टूबरमासः (हि.स.)। अतीव सूक्ष्मस्तरे लोके परिवर्तनं भवति, विचित्रा: च घटना: दृश्यन्ते। क्वाण्टमजगति एता: घटना: कदाचित्‌ स्थूलस्तरेऽपि सम्भवन्ति इति प्रमाणीकृतवन्तः त्रयः वैज्ञानिकाः अस्य वर्षस्य भौतिकीस्य नोबेलपुरस्कारस्य पात्राः अभव
नोबेल पुरस्कार विजेता


नवदेहली, 7 अक्टूबरमासः (हि.स.)। अतीव सूक्ष्मस्तरे लोके परिवर्तनं भवति, विचित्रा: च घटना: दृश्यन्ते। क्वाण्टमजगति एता: घटना: कदाचित्‌ स्थूलस्तरेऽपि सम्भवन्ति इति प्रमाणीकृतवन्तः त्रयः वैज्ञानिकाः अस्य वर्षस्य भौतिकीस्य नोबेलपुरस्कारस्य पात्राः अभवन्। तेषां शोधेन क्वाण्टम्‌ सङ्केतलेखनम्‌ (Quantum Cryptography), क्वाण्टम्‌ सङ्गणकाः (Quantum Computers), क्वाण्टम्‌ संवेदकाः (Quantum Sensors) इत्यादीनि नवपीढ्याः क्वाण्टम्‌ प्रौद्योगिकीः विकसितुं साहाय्यं भविष्यति।

रॉयल्‌ स्वीडिश्‌ एकेडमी ऑफ्‌ साइन्सेस्‌ इति संस्थायाः अनुसारम् — “विद्युत्‌परिपथे स्थूलस्तरे क्वाण्टम्‌ यान्त्रिकस्य सुरङ्गस्य तथा ऊर्जायाः क्वाण्टिकीकरणस्य अन्वेषणाय” — इति हेतोः जॉनकलार्क:, माइकल्‌ एच्‌ डेवोरेट:, जॉन्‌ एम्‌ मार्टिनिस्‌ इत्येते त्रयः वैज्ञानिकाः नोबेलपुरस्काराय चयनिताः सन्ति।

क्लार्क: इत्यस्य जन्म ब्रिटने अभवत्‌, सः क्यालिफोर्निया विश्वविद्यालये (बर्कले) आचार्यः अस्ति। डेवोरेट्‌ फ्रान्से जातः, येल्‌ विश्वविद्यालये तथा क्यालिफोर्निया विश्वविद्यालये (सान्ता बार्बरा) आचार्यः अपि अस्ति। मार्टिनिस्‌ अपि सान्ता बार्बरा विश्वविद्यालये आचार्यः अस्ति।

एते वैज्ञानिकाः हस्ते धृत्वा स्थूलाकारं विद्युत्‌परिपथं प्रयोगेषु उपयुज्य प्रमाणीकृतवन्तः यत्‌ अस्मिन्‌ अपि स्थूले स्थले क्वाण्टम्‌ यान्त्रिकी सुरङ्गः क्वाण्टिकीकृता ऊर्जास्तराः च सम्भवन्ति।

सामान्यजगति ऊर्जा अधिका वा अल्पा वा भवति, भित्तेः आरपारगमनं तु न सम्भवति। क्वाण्टम्‌ जगति तु ऊर्जा पुटेषु आगच्छति, भित्तिसदृशान्‌ विघ्नान्‌ अपि अतिक्रान्तुं शक्यते। एषः भेदः “क्वाण्टिकीकृता ऊर्जास्तराः” तथा “क्वाण्टम्‌ यान्त्रिकी सुरङ्गः” इति नामभ्यां प्रसिद्धः अस्ति।

भौतिकशास्त्रे दीर्घकालात्‌ एकं प्रमुखं प्रश्नं जातम्‌ — कियत्‌ महत्‌ आकारं यावता प्रणाली क्वाण्टम्‌ यान्त्रिकप्रभावान्‌ दर्शयितुं शक्यते ? — अस्य उत्तरस्य अन्वेषकाः एव अस्य वर्षस्य नोबेलपुरस्काराय अर्हिताः। संगणकचिप्‌सु स्थिताः ट्रांजिस्टर इति अपि अस्याः स्थापितक्वाण्टम्‌ प्रौद्योगिक्याः दृष्टान्तः अस्ति।

रॉयल्‌ स्वीडिश्‌ अकदमी- अनुसारं विजेतृभ्यः नोबेल्‌ डिप्लोमा, एकः पदकः, च १.१ कोटिः स्वीडिश्‌ क्रोनेर्‌ (१२ लक्ष अमेरिकी डॉलर्स्‌) दास्यन्ति। पुरस्कारराशिः त्रिषु वैज्ञानिकेषु समानरूपेण विभज्यते।

सन्‌ १९०१ तः २०२५ पर्यन्तं भौतिकेषु ११९ वारं नोबेल्‌ पुरस्कारः प्रदत्तः, २३० वैज्ञानिकाः तेन अलङ्कृताः। तेषु पञ्च महिलाः। नोबेल्‌ पुरस्कारः भौतिकी, रसायनशास्त्र, चिकित्साशास्त्र, साहित्य, शान्ति, अर्थशास्त्र इत्येषु प्रदीयते — सः विश्वस्य अतिश्रेष्ठः प्रतिष्ठितः च पुरस्कारः इति प्रसिद्धः। सर्वे विजेतारः अल्फ्रेड्‌ नोबेलस्य निधनदिने, दिसम्बर्मासे, स्वीडदेशे महाराज्ञा द्वारा सम्मानिताः भविष्यन्ति।

---

----

हिन्दुस्थान समाचार / अंशु गुप्ता