Enter your Email Address to subscribe to our newsletters
रक्षामन्त्री युद्धं नूतनपरिभाषां ददाति इत्यादृशी प्रौद्योगिकीनां विकासाय आह्वानं कृतवान्।
नवदेहली, 07 अक्टूबरमासः (हि.स.)।रक्षामन्त्री राजनाथसिंहः वैज्ञानिकान् प्रति आह्वानं कृतवान् यत्, ते विद्यमानसमाधानान् अतीत्य चिन्तयन्तु, युद्धं नूतनपरिभाषां ददाति इत्येतादृशीः नवीनतामूलकाः प्रौद्योगिक्यः विकासयन्तु।ते उक्तवन्तः — “अस्माभिः न अनुकरणशीलाः न च अनुयायिनः भवितव्यम्, अपितु विश्वाय निर्माता मानकनिर्धारकश्च भवितव्यम्।”
ते मङ्गलवारे विज्ञानभवने आयोजिते ‘रक्षा-नवाचार-संवादः : आइडेक्स्-स्टार्टअप्स्-संवादः’ इत्यस्मिन् कार्यक्रमे अवदन् यत् —विमानाणु, प्रतिविमानाणु-प्रणालीः, क्वाण्टम्-सङ्गणनम्, निर्देशित-ऊर्जास्त्राणि च भविष्यस्य रूपरेखां निर्मास्यन्ति।अस्माभिः ऑपरेशन-सिन्दूर इत्यस्मिन् अपि तादृशं प्रदर्शनं दृष्टम्।
‘देशे रक्षा-विनिर्माणस्य अवसराः’ इत्यस्मिन् सम्मेलने रक्षामन्त्रिणा उक्तम् —
“युद्धक्षेत्रं परिवर्तितम् अस्ति, भविष्ये युद्धानि एल्गोरिदम तथा कृत्रिमबुद्ध्या (ए.आई.) सह भविष्यति।नवप्रवर्तकेभ्यः आह्वानं करोमि यत्, ते भारतस्य प्रथमं रक्षा-यूनिकॉर्न् स्थापयन्तु। युवानः अपि भारतस्य प्रौद्योगिकपरिवर्तनस्य नेतृत्वं कुर्वन्तु।”
रक्षामन्त्री अवदत् यत्, गतवित्तवर्षे १.५ लक्षकोट्यधिकं रक्षा-उत्पादनम्, २३,००० कोट्यधिकं निर्यातम् च अभवत्, यस्मिन् नवप्रवर्तकानां संयुक्तप्रयत्नः प्रशंसनीयः आसीत्।ते अवदन् — “भवतः सः नवभारतनिर्माता अस्ति, यः स्वयमेव संरचना-विकास-उत्पादनकार्येषु विश्वासं स्थापयति।”
वर्षे २०१८ आरभ्य आइडेक्स् नामकस्य कार्यक्रमस्य प्रारम्भः जातः, यस्य उद्देशः आसीत् — भारतस्य युवप्रतिभां सशस्त्रबलानां प्रौद्योगिक-आवश्यकताभिः संयोजयितुम्।अद्य केवलं सप्तवर्षेषु ६५० रक्षा-उत्कृष्टतायै नवाचाराः कृता, च ३,००० कोट्यधिकमूल्यस्य प्रोटोटाइप् क्रयः सुनिश्चितः जातः।एषः भारतस्य रक्षा-नवाचार-परिदृश्ये क्रान्तेः प्रतीकः अस्ति।
रक्षामन्त्रिणा उक्तं यत्, आइडेक्स्-पूर्वं भारतीयप्रतिभाः सूचनातन्त्रज्ञान, दूरसञ्चार, अन्तरिक्षक्षेत्रे वैश्विकस्तरे उत्कृष्टरूपेण योगदानं दत्तवन्तः आसन्, किन्तु रक्षा-क्षेत्रे तेषां उपयोगः अल्पः आसीत्।इदानीं आइडेक्स्-द्वारा सुनिश्चितं जातं यत्, भारतीयप्रतिभाः भारतस्य सुरक्षायै एव कार्यं कुर्वन्ति।अद्य एषः उपक्रमः केवलं कार्यक्रमः न, किन्तु आन्दोलनं भवति, यत् भारतीयरक्षा-विनिर्माणस्य भविष्यं आकारयति।
राजनाथसिंहेन उक्तं यत्, आत्मनिर्भरभारतस्य अन्तर्गतं रक्षा-विनिर्माणं इदानीं निजनिवेश, अनुसंधान-विकास, रोजगारसृजनम् इत्येतेषां कृते आशाजनकं क्षेत्रं जातम्।
ते अवदन् —
“वर्षे 2047 पर्यन्तं विकसितभारतनिर्माणाय आवश्यकं यत्, वयं रक्षा-क्षेत्रे आत्मनिर्भराः भवेम, वैश्विकनिर्यातकाः प्रमुखाश्च उद्भवेम।अतीव-आधुनिक-प्रौद्योगिक-क्षेत्रेषु अपि विश्वस्य नेतृत्वं कुर्मः।”
ते अपि अवदन् यत्, गतदशवर्षेषु ‘आत्मनिर्भरभारत’-अभियानस्य अन्तर्गतं सर्वकारेण अनेकाः नीतिगतप्रयासः कृताः, यासां लक्ष्यं देशे रक्षा-उपकरणानां स्वदेशी-संरचना-विकास-निर्माणप्रोत्साहनम्।रक्षा-क्षेत्रे आत्मनिर्भरता केवलं ‘मेक् इन् इंडिया’ अथवा निर्याताङ्कानां विषयः नास्ति, किन्तु संकटकाले स्वरक्षणार्थं अन्येषां प्रति अनपेक्षता एव आत्मनिर्भरता इत्युच्यते।
रक्षामन्त्रिणा नवप्रवर्तकैः सह संवादः कृतः, तेषां प्रौद्योगिक-सफलतानां प्रशंसा च कृतवती।रक्षा-नवउद्योग-विस्तारः, नवाचारः, उत्पादनसंयोजनम्, अनुसंधान-विकाससहयोगः च विषयेषु विभाग-चर्चाः अनुभव-विनिमय-सत्राणि च आयोजिता।
अस्मिन् अवसरे प्रधानसैन्याध्याक्षः जनरल् अनिलचौहानः, रक्षा-अनुसंधान-विकास-विभागस्य सचिवः तथा डीआरडीओ-अध्यक्षः डॉ. समीर् वी. कामतः, सचिवः (रक्षा-उत्पादनम्) संजीवकुमारः, च अन्ये रक्षामन्त्रालयस्य अधिकारी, नवप्रवर्तकाः, नवउद्योगः, सूक्ष्म-मध्यम-उद्योगाः, सशस्त्रबलप्रतिनिधयः, रक्षा-सार्वजनिक-उद्योगानां अधिकारी च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता