विकसितभारत-नवविनिर्माणस्पर्धायाः पञ्जीकरणस्य अन्तिमतिथिः ११ अक्तुबर पर्यन्तं विस्तारिताऽस्ति
नवदेहली, 7 अक्टूबरमासः (हि.स.)। शिक्षामन्त्रालयेन मङ्गलवारे विकसितभारत-नवविनिर्माणस्पर्धा २०२५ इत्यस्य पञ्जीकरणस्य अन्तिमतिथिः ६ अक्तुबरतः ११ अक्तुबरपर्यन्तं विस्तारिताऽस्ति। अस्मिन् राष्ट्रव्यापके नवाचारोत्सवे देशस्य सर्वतः प्रायः द्वादशकोटी छात्र
केंद्रीय शिक्षा मंत्री धर्मेंद्र प्रधान मंगलवार को ‘विकसित भारत बिल्डाथॉन-2025’ का शुभारंभ करते हुए


नवदेहली, 7 अक्टूबरमासः (हि.स.)। शिक्षामन्त्रालयेन मङ्गलवारे विकसितभारत-नवविनिर्माणस्पर्धा २०२५ इत्यस्य पञ्जीकरणस्य अन्तिमतिथिः ६ अक्तुबरतः ११ अक्तुबरपर्यन्तं विस्तारिताऽस्ति। अस्मिन् राष्ट्रव्यापके नवाचारोत्सवे देशस्य सर्वतः प्रायः द्वादशकोटी छात्राः १३ अक्तुबरदिने सहभागीन्यः भविष्यन्ति।

विकसितभारत-नवविनिर्माणस्पर्धा २०२५ इत्यस्य आयोजनं शिक्षामन्त्रालयस्य विद्यालय-शिक्षा-साक्षरता-विभागेन अटल-नवाचार-उद्देश्य-नीति-आयोग-एआईसीटीई इत्येभ्यः संस्थाभ्यः सहकार्येण क्रियते।

छात्र-नवप्रवर्तकान् प्रोत्साहितुं तेषां च नवाचारान् मान्यतां दातुं विद्यालयैः स्वप्रविष्टयः छायाचित्ररूपेण चलचित्ररूपेण च प्रस्तुत्य भविष्यन्ति। विशारदानां एकः परिषद: , ताः प्रविष्टयः मूल्ययिष्यति तथा शीर्षसमूहान् एककोटीरूप्यकपर्यन्तं पुरस्कारैः सम्मानयिष्यति। एते विद्यालयाः छात्राश्च निगम-सहकार-मार्गदर्शन-संसाधनैः दीर्घकालिकं समर्थनं प्राप्स्यन्ति, येन तेषां नवाचाराः सुदृढाः भविष्यन्ति।

अस्मिन् नवाचारान्दोलने देशस्य सर्वकारी-निजी-विद्यालयानां षष्ठ्याः कक्ष्यायाः आरभ्य द्वादशकक्ष्यापर्यन्तं पठन्तः द्वादशकोटी छात्राः सहभागीन्यः भविष्यन्ति। अयं कार्यक्रमः १३ अक्तुबरदिने प्रातः १० वादनात् मध्यान्ह १२ वादनपर्यन्तं षट्-लक्षविद्यालयेषु छात्रैः छात्राभिश्च सह समकालिकरूपेण आचरिष्यते।

विकसितभारत-नवविनिर्माणस्पर्धायाः चत्वारः प्रमुखविषयाः सन्ति —

(१) आत्मनिर्भरभारतम्

(२) स्वदेशी

(३) स्थानीयार्थं स्वरः

(४) समृद्धभारत।

छात्राः ३–५ सदस्यीयसमूहैः विभक्ताः स्युः। ते एतेषु विषयेषु विमर्शं कृत्वा स्वनवीनविचारान् नवाचारांश्च प्रस्तुतं करिष्यन्ति।

पञ्जीकरणप्रक्रिया २३ सितम्बरदिने आरब्धा। ततः ६ अक्तुबरतः १३ अक्तुबरपर्यन्तं विद्यालयानां सज्जाकालः भविष्यति, यस्मिन् शिक्षकाः पोर्टल्-माध्यमेन छात्रसमूहानां मार्गदर्शनं करिष्यन्ति। अनन्तरं छात्राः पोर्टल इत्यस्मिन् स्वविचारान् समर्पयिष्यन्ति।

मुख्यकार्यक्रमः १३ अक्तुबरदिने भविष्यति। तस्यानन्तरं छात्राः १३ अक्तुबरतः ३१ अक्तुबरपर्यन्तं स्वाः अन्तिमप्रविष्टयः समर्पयिष्यन्ति। ततः १ नवेम्बरतः ३१ दिसम्बरपर्यन्तं विशारदपरिषद् द्विमासकालं मूल्याङ्कनकार्यं करिष्यति।

कार्यक्रमस्य समापनं २०२६ जनवरिमासे परिणामघोषणया शीर्षसहस्राधिकविजेतॄणां च सम्मानसमारोहेण भविष्यति। विजेतॄणां कृते एककोटीरूप्यकपर्यन्तं पुरस्कारराशिः निर्धारिताऽस्ति — राष्ट्रस्तरे दशविजेतारः, राज्यस्तरे शतं, जनपदस्तरे सहस्रं विजेतारः च चयनिताः भविष्यन्ति।

-

हिन्दुस्थान समाचार / अंशु गुप्ता