वायुसैन्यदिवसः – हिंडन-वायुसैनिक-आधारे भारतीयवायुसैनायाः शक्तिः प्रदर्शिता, परेडे राफेल्‌, सुखोई, मिग्–29 च समाविष्टाः
गाजियाबादम्, 08 अक्टुबरमासः (हि.स.)। भारतीयवायुसैनया स्वस्य‌ 93 तमं वायुसैन्यदिवसमानयनं कृत्वा हिंडन-वायुसैनिक-आधारे भव्यं परेडं आयोज्य स्वबलं, शौर्यं, पराक्रमं च प्रदर्शितम्। अस्मिन् परेडे राफेल्‌, सुखोई, मिग्–29 इत्यादयः युद्धविमानाः, स्वदेशनिर्
आप्रेशन सिंदूर को समर्पित रहा वायुसेना दिवस


गाजियाबादम्, 08 अक्टुबरमासः (हि.स.)। भारतीयवायुसैनया स्वस्य‌ 93 तमं वायुसैन्यदिवसमानयनं कृत्वा हिंडन-वायुसैनिक-आधारे भव्यं परेडं आयोज्य स्वबलं, शौर्यं, पराक्रमं च प्रदर्शितम्।

अस्मिन् परेडे राफेल्‌, सुखोई, मिग्–29 इत्यादयः युद्धविमानाः, स्वदेशनिर्मितं ‘नेत्रम्’ इत्याख्यं विमानम्‌, ‘सी–17 ग्लोबमास्टर्’, ‘आकाश’ इत्याख्या स्वदेशी भूम्याकाशमिसाइल्-प्रणाली, ‘सी–130जे हरक्यूलिस्’ इत्याख्यं विमानम्‌, ‘लॉन्गबो रडार्’युक्तः ‘अपाचे’ आक्रमण-हेलीकॉप्टरः, ‘एड्वान्स् लाइट् हेलीकॉप्टरः’ च स्वबलं प्रदर्शितम्।तस्मात् पूर्वं त्रिसैन्यप्रधानैः सह प्रतिरक्षामुख्यनियामकः (सीडीएस्) अनिलचौहानः राष्ट्रीययुद्धस्मारके पुष्पाञ्जलिं अर्पयत्।

अस्य वर्षस्य वायुसैन्यदिवसस्य विषयः आसीत् — “भारतीयवायुसैना – सक्षम, सशक्त, आत्मनिर्भर च”, च अस्य दिवसस्य समर्पणं कृतं “ऑपरेशन् सिंदूर” इत्यस्य वीरयोद्धेभ्यः। अस्मिन् अवसरे 97 वीरतापुरस्काराः प्रदत्ताः।

भारतीयवायुसैनायाः प्रमुखः वायुसेनाध्यक्षः एयर् चीफ् मार्शल् ए.पी. सिंहः वायुवीरान् सम्बोध्य उक्तवान् यत् “ऑपरेशन् सिंदूर” इत्येतत् यथासम्भाव्यं योजनया, अनुशासितप्रशिक्षणेन दृढनिश्चयेन च प्राप्तव्यस्य उत्तमं दृष्टान्तं ददाति। सः हिंडन-आधारे परेडस्य निरीक्षणं कृत्वा वायुवीरान् सम्मानितवान्।

परेडकाले वायुसैन्यविमानैः विस्मयजनकाः कौशलप्रदर्शनानि कृतानि। युद्धविमानानि हेलीकॉप्टराश्च आकाशे स्वकला प्रदर्शयन्। विमानात् त्रिवर्णध्वजः अपि आकाशे व्याप्य फालितः, यः देशस्य प्रति वायुसैनायाः समर्पणभावं दर्शयामास।

हिन्दुस्थान समाचार / अंशु गुप्ता