रानीगञ्जे मतदाता-जागरूकता-कार्यक्रमस्य अन्तर्गतं रंगोली-निर्माणस्य आयोजनम्
अररिया 08 अक्टूबरमासः (हि.स.)। जनपदे रानीगञ्ज-प्रखण्डे मतदाताजागरूकताकार्यक्रमस्य अन्तर्गतं बुधवासरे विविध-गतिविधीनाम् आयोजनम् अभवत्। अस्य कार्यक्रमस्य उद्देश्यः जनानां मध्ये मतदानस्य प्रति जागरूकतां वर्धयितुं, लोकतान्त्रिक-मूल्यानि च सुदृढीकर्तुं
अररिया फोटो:आंगनबाड़ी केन्द्र में रंगोली का निर्माण


अररिया 08 अक्टूबरमासः (हि.स.)। जनपदे रानीगञ्ज-प्रखण्डे मतदाताजागरूकताकार्यक्रमस्य अन्तर्गतं बुधवासरे विविध-गतिविधीनाम् आयोजनम् अभवत्। अस्य कार्यक्रमस्य उद्देश्यः जनानां मध्ये मतदानस्य प्रति जागरूकतां वर्धयितुं, लोकतान्त्रिक-मूल्यानि च सुदृढीकर्तुं आसीत्।

कार्यक्रमस्य समये आङ्गनवाडी-केन्द्रेषु रंगोली-कार्यक्रमः आयोजितः, यस्मिन् महिलाः उत्साहेन स्व-सहाभागितां सुनिश्चित्य “वोट् फॉर् बेटर् बिहार” इत्यस्य सन्देशं दत्तवन्त्यः। आङ्गनवाडी-सेविकाः सहायिकाश्च स्वस्व-केन्द्रेषु रंगारङ्ग-रंगोल्याः निर्माणं कृत्वा मतदातॄन् अधिकतया स्वमताधिकारस्य प्रयोगं कर्तुम् आह्वयन्त्यः आसन्।

हिन्दुस्थान समाचार / अंशु गुप्ता