छत्तीसगढराज्यस्य मुख्यमन्त्री सायः अद्य जनजातीयगौरवदिवसकार्यशालायां सम्मिलितः भविष्यति
रायपुरम् 8 अक्टूबरमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे रायपुरनगरे आयोजितेषु विविधेषु कार्यक्रमेषु सम्मिलितः भविष्यति। नियतकार्यक्रमानुसारः सः प्रातः ११ः३५ वादने सिविललाइनप्रदेशस्थिते न्यू सर्किट् हाउस् इत्यस्य सम्
मुख्यमंत्री विष्णुदेव साय


रायपुरम् 8 अक्टूबरमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णुदेवसायः अद्य बुधवासरे रायपुरनगरे आयोजितेषु विविधेषु कार्यक्रमेषु सम्मिलितः भविष्यति। नियतकार्यक्रमानुसारः सः प्रातः ११ः३५ वादने सिविललाइनप्रदेशस्थिते न्यू सर्किट् हाउस् इत्यस्य सम्मेलनमण्डपे आगम्य जनजातिगौरवदिवसकार्यशालायां भागं गृह्णीयात्। ततः अपराह्णे डीडीयू ऑडिटोरियम् इत्यस्मिन् द्विवादने आयोजिते राज्यस्तरीये पारम्परिकवैद्यसम्मेलने सः उपस्थितः भविष्यति। एवं त्रीवादने पण्डितरविशंकरशुक्लविश्वविद्यालये नियुक्तिपत्रवितरणकार्यक्रमेऽपि सः सम्मिलितः भविष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता