‘लोकनायक’ जयप्रकाशनारायणस्य पुण्यतिथौ केन्द्रीयशिक्षामन्त्री नमनं कृतवान्
भुवनेश्वरः, 8 अक्टूबरमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः ‘लोकनायक’ जयप्रकाशनारायणस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिम् अर्पितवान्। धर्मेन्द्रप्रधानः सामाजिकमाध्यमे लिखितवान् — “राष्ट्रभक्तेः लोकशक्तेः च प्रतीकः ‘लोकनायक’ जयप्रकाशना
‘लोकनायक’ जयप्रकाशनारायणस्य पुण्यतिथौ केन्द्रीयशिक्षामन्त्री नमनं कृतवान्


भुवनेश्वरः, 8 अक्टूबरमासः (हि.स.)। केन्द्रीयशिक्षामन्त्री धर्मेन्द्रप्रधानः ‘लोकनायक’ जयप्रकाशनारायणस्य पुण्यतिथौ तस्मै श्रद्धाञ्जलिम् अर्पितवान्।

धर्मेन्द्रप्रधानः सामाजिकमाध्यमे लिखितवान् — “राष्ट्रभक्तेः लोकशक्तेः च प्रतीकः ‘लोकनायक’ जयप्रकाशनारायणस्य पुण्यतिथौ तस्मै श्रद्धया नमनं करोमि। लोकनायकजयप्रकाशनारायणः स्वस्य अदम्यसाहसेन अथकसंघर्षेण च भारतीयराजनीतिं नविनां दिशां प्रदत्तवान्। स्वातन्त्र्यसंग्रामात् आरभ्य आपात्कालस्य विरोधपर्यन्तं तस्य जीवनं राष्ट्रहिताय लोकशासनस्य च रक्षणाय समर्पितम् आसीत्। सः १९७५ तमे वर्षे तानाशाही आरोप्य यदा लोकतान्त्रिकसंस्थाः निःश्वसितुं न शक्नुवन् आसन्, तदा ‘सम्पूर्णक्रान्ति’ इति आह्वानं कृत्वा जनं प्रति अन्यायस्य विरुद्धे उत्थानाय प्रेरितवान्। तस्य साहसः, त्यागः, अचलनिश्चयः च अद्यापि प्रत्येकभारतीयं लोकतन्त्ररक्षणाय मार्गदर्शनं ददाति।”

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता