विधानसभानिर्वाचनस्य कारणेन परिवर्तिता सोनपुर मेलायाः आयोजनस्य तिथिः, अधुना 9 नवंबर उद्घाटनं एवं 10 दिसंबर सम्प्स्यते समापनम्
पटना, 8 अक्टूबरमासः (हि.स.)।बिहारप्रसिद्धे हरिहरक्षेत्रे सोनपुरमण्डले २०२५ तमे वर्षे आयोज्यमानस्य मेळस्य तिथिषु निर्वाचननिमित्तं परिवर्तनं कर्तुं हेतोः जिलाधिकारी अमनसमीरमहाभागस्य अध्यक्षत्वे अनुमण्डलसभागारे सोनपुरे बैठकम् आयोजितम्। जिलाधिकारेण उक
विधानसभा चुनाव के कारण बदली सोनपुर मेला के आयोजन की तिथि


पटना, 8 अक्टूबरमासः (हि.स.)।बिहारप्रसिद्धे हरिहरक्षेत्रे सोनपुरमण्डले २०२५ तमे वर्षे आयोज्यमानस्य मेळस्य तिथिषु निर्वाचननिमित्तं परिवर्तनं कर्तुं हेतोः जिलाधिकारी अमनसमीरमहाभागस्य अध्यक्षत्वे अनुमण्डलसभागारे सोनपुरे बैठकम् आयोजितम्।

जिलाधिकारेण उक्तं “भारते निर्वाचनायोगेन घोषणां कृत्वा सारणजिले ६ नवेम्बर दिनाङ्के मतदानतिथिः निर्धारिता अस्ति। अतः पूर्वनिर्धारितकार्यक्रमानुसार ३ नवेम्बर दिनाङ्के मेळस्य शुभारम्भे कठिनता भविष्यति। सर्वं प्रशासनतन्त्रं मतदानकार्ये व्यस्तं भविष्यति, अत एव मेळस्य तिथिषु परिवर्तनस्य आवश्यकता अस्ति।”अनन्तरं सर्वेषां सदस्याणां मतानि क्रमशः गृहीतानि। सर्वेषां सदस्याणां सामान्यसम्मत्या मेळस्य शुभारम्भः ९ नवेम्बर दिनाङ्के, समापनं च १० डिसेम्बर दिनाङ्के करणीयमिति निर्णयः कृतः। अस्य निर्णयस्य प्रस्तावः सरकारं प्रति प्रेष्य अनुमोदनं प्राप्यते इति निश्चितम्।जिलाधिकारेण अपि उक्तं “कार्तिकपूर्णिमास्नानं प्रति व्यवस्था यथापूर्वं सुनिश्चितं करिष्यते।अस्मिन् अवसरे वरीयपुलिसअधिक्षकः डॉ॰ कुमारआशीषः, उपविकासायुक्तः यतेन्द्रकुमारपालः, अपरसमाहर्ता मुकेशकुमारः, अन्ये च जिल्लानुमण्डल–प्रखण्डस्तरीय अधिकारीणः तथा स्थानीयसमितेः गण्यमानव्यक्तयः उपस्थिताः आसन्।

---------------

हिन्दुस्थान समाचार