चत्वारिंशल्लक्ष्यं भ्रष्टाचारस्य आरोपी बड़ौदायूपीवित्तकोषस्य कार्यालय सहायकस्य निस्तारणविरुद्धा याचिका निरस्ता
प्रयागराजः, 08 अक्टूबरमासः (हि.स.)।इलाहाबाद-उच्चन्यायालयेन ४० लक्षरूप्यकानां गबनदोषे आरोपितस्य बड़ौदा यूपी ग्रामीणबैंक फकीराबाद (जिला–कौशाम्बी) कार्यालय-सहायकस्य पदच्युत्याः विरुद्धं दत्तां चुनौती-याचिकां निरस्तां कृतवती। न्यायालयेन उक्तं यद् विभा
इलाहाबाद हाईकाेर्ट


प्रयागराजः, 08 अक्टूबरमासः (हि.स.)।इलाहाबाद-उच्चन्यायालयेन ४० लक्षरूप्यकानां गबनदोषे आरोपितस्य बड़ौदा यूपी ग्रामीणबैंक फकीराबाद (जिला–कौशाम्बी) कार्यालय-सहायकस्य पदच्युत्याः विरुद्धं दत्तां चुनौती-याचिकां निरस्तां कृतवती।

न्यायालयेन उक्तं यद् विभागीय-जांच-कार्यवाहीषु विधिपूर्वकं सम्पूर्णं कानूनी-प्रक्रियायाः पालनं कृतम् अस्ति। आदेशे कापि विधिकदोषा नास्ति। एषः आदेशः न्यायमूर्ति सौरभ श्याम शमशेरी महोदयेन अमितकुमार पाण्डेयस्य याचिकायाः निवारणार्थं प्रदत्तः।

याचकस्य विषये आरोपः आसीत् यत् १ नवम्बर् २०१९ तः २ दिसम्बर् २०२२ पर्यन्तं सः अजयकुमार नामकं व्यक्तिं प्रति वित्तकोषस्य ४० लक्षरूप्यकान् दत्वा महद्गबनं कृतवान्, अतिवैषम्यं च आचरितवान्। १५ मार्च् २०२३ तमे दिने द्वादशभिः आरोपैः सहितं चार्जशीट् प्रदत्ता। अनन्तरं विभागीय-जांच आरब्धा।

याचकाय पक्षप्रदर्शनस्य तथा स्वसंरक्षणार्थं प्रतिनिधेः नियुक्तेः अवसरः अपि दत्तः, किन्तु तेन तस्मात् लाभः न प्राप्तः। तेन अपराधस्वीकारस्य वीडियोदृश्यं अपि अस्ति, सीसीटीवी-फुटेज् अपि साक्षिरूपेण प्राप्तम्।

याचकः सर्वान् आरोपान् अस्वीकारयत्, उक्तवान् च — “अहं वरिष्ठाधिकारिणां भ्रष्टाचारविरुद्धं स्वरं उच्चारितवान् अस्मि, तेन एव मम विरुद्धं मिथ्या-मामला रचितः। अजयकुमारं न जानामि, न च कदाचन धनं दत्तवान् अस्मि। मया याचितेऽपि सीसीटीवी-दृश्यं न प्रदत्तम्। अपराधस्वीकारस्य यत् वीडियोदृश्यं तत् पुलिस्या दैहिकपीडनात् जबरदस्ती कृतं।”

जांच-प्रतिवेदने याचकं कदाचारदोषे दोषितं घोषितम्। ततः तस्मै प्रतिवेदनसहितं कारणं बताओ नोटिस् प्रदत्तम्, व्यक्तिगतश्रवणं कृतम्, अनन्तरं सः पदच्युतः कृतः।

एतस्मात् निर्णयात् परं याचकस्य क्षेत्रीयप्रबन्धक-अपीलापि निरस्तां कृतवती। तस्मात् सः उच्चन्यायालये याचिकां प्रस्तुतवान् आसीत्, या अधुना निरस्तां कृतवती।

---------------

हिन्दुस्थान समाचार