Enter your Email Address to subscribe to our newsletters
पंजाबम् 08 अक्टुबरमासः (हि.स.) पञ्जाबी-संगीत-जगतः अत्यन्तं दुःखदं वार्तां श्रावयति। प्रसिद्धः गायकः राजवीर जवन्दा अस्मान् सर्वान् त्यक्त्वा गतः। उक्तं यत् सः 08 अक्टुबरमासे अस्मान् परित्यज्य गतवान्। तस्य निधनस्य वार्ता सम्पूर्णं संगीत-जगतं च प्रशंसकान् च गभीरं शोकमग्नं कृतवती। सामाजिक-माध्यमेभ्यः आरभ्य पञ्जाबी-मनोरञ्जन-क्षेत्रपर्यन्तं सर्वेऽपि एतां वार्तां श्रुत्वा दुःखिता भवन्ति।
प्राप्तवार्तां अनुसारं 27 सितम्बरमासे राजवीरः हिमाचलप्रदेशे शिमलानगरे मार्ग-दुर्घटनायां पतितः। अस्यां दुर्घटनायां तस्य शिरसि मेरुदण्डे च गम्भीराणि आघातानि अभवन्। चिकित्साकाले तस्मै हृदयाघातः अपि अभवत्, ततः परं तस्य दशा अधिकं गम्भिरा जाता। प्रायः 11 दिवस-पर्यन्तं सः मोहालीनगरस्थे फोर्टिस् चिकित्सालये जीवन-मरणयोः मध्ये संघर्षं कृत्वा स्थितः। चिकित्सकानां सर्वेषां प्रयत्नानाम् अपि निष्फलतया 8 अक्टुबरमासे सः अन्तिमं श्वासं कृतवान्।
तस्य निधनस्य पुष्टि प्रसिद्धा नायिकया नीरू बाजवा इत्यनेन सामाजिक-माध्यमे कृतेन लेखनेन अभवद्। सा इंस्टाग्राम्-माध्यमे भावनापूर्णं संदेशं लिखित्वा राजवीर-जवन्दां प्रति विनम्रां श्रद्धांजलिं दत्तवती। सा लिखितवती यत् “संगीत-जगतेन एकः अतिप्रतिभाशाली कलाकारः गतः।” नीरू-बाजवया सह अनेकाः पञ्जाबी-कलाकाराः अपि सामाजिक-माध्यमेषु स्वसंवेदनाः व्यक्तवन्तः।
केवलं 35 वर्षीयायां वयस्यां राजवीरेण पञ्जाबी-संगीतं नूतनं शिखरं नीतम्। तेन ‘जोर’, ‘सोहनी’, ‘रब्ब करके’, ‘तू दिसदा पैंदा’, ‘मोरनी’, ‘धीयां’, ‘खुश रह कर’, ‘जोगिया’ इत्यादयः अनेकाः सुप्रसिद्धाः गीताः प्रदत्ताः। तस्य कण्ठे भूमेः सुगन्धः, भावनानां गाम्भीर्यं स्फुरणं च आसीत्, येन सः लोकानां हृदयेषु निलीयमानः आसीत्।
गायनकौशलात् अपि राजवीरः किञ्चन पञ्जाबी-चित्रपटेषु दृष्टः। तस्य सादगी, विनयशीलता, चित्तं स्पृशन्ति गीताः च तं केवलं पंजाबे न, अपितु विश्वस्य सर्वेषां संगीतप्रेमिणां हृदये प्रियं कृतवन्तः। तस्य प्रशंसकाः सहकर्मी कलाकाराश्च निरन्तरं श्रद्धांजलिं लिखन्ति स्म, एतत् व्यक्तवन्तः यत् पञ्जाबी-संगीत-जगति राजवीरस्य अभावः सदा अनुभूयते।
हिन्दुस्थान समाचार / अंशु गुप्ता