खेल विश्वविद्यालयस्य ऋतिका बीएफआईचषके अजयत् स्वर्णम्
सोनीपतम्, 8 अक्टूबरमासः (हि.स.)।हरियाणाराज्यस्य रायी–स्थितस्य खेल–विश्‍वविद्यालयस्य एम्.पी.ई.एस्. छात्रा तथा मुक्केबाज–क्रीडिका ऋतिका दहिया नाम्नी वी.आई.टी. चेन्नै–नगरे आयोजिते एलीट् बी.एफ्.आई.चषके २०२५ स्वर्ण–पदकं प्राप्तवती, येन सा हरियाणराज्यस्
सोनीपत: खेल विश्वविद्यालय राई की स्वर्ण पदक विजेता ऋतिका दहिया


सोनीपतम्, 8 अक्टूबरमासः (हि.स.)।हरियाणाराज्यस्य रायी–स्थितस्य खेल–विश्‍वविद्यालयस्य एम्.पी.ई.एस्. छात्रा तथा मुक्केबाज–क्रीडिका ऋतिका दहिया नाम्नी वी.आई.टी. चेन्नै–नगरे आयोजिते एलीट् बी.एफ्.आई.चषके २०२५ स्वर्ण–पदकं प्राप्तवती, येन सा हरियाणराज्यस्य च विश्‍वविद्यालयस्य च नाम यशसा प्रकाशितवती।

तस्याः उत्कृष्ट–प्रदर्शनस्य आधारेण ऋतिकायाः चयनं नवम्बर् २०२५ मासे भारतदेशे आयोज्यमानस्य विश्व–मुक्केबाजी–कपस्य राष्ट्रीय–प्रशिक्षण–शिविराय जातम्।

बुधवासरे कुलपति–आचार्यः अशोककुमारः, कुलसचिवः जसविन्दरसिंहः, डीन् (अकादमिक्) योगेशचन्द्रः, डीन् (स्पोर्ट्स् साइन्स्) विवेककुमारसिंहः, क्रीडा–निदेशकः संजयसरस्वतः, ललिताशर्मा च, मुख्य–प्रशिक्षकः सन्दीपकुमारः च — सर्वे ऋतिकाम् अभिनन्दितवन्तः।

अस्याः उपलब्धेः कारणेन विश्‍वविद्यालय–कुटुम्बे हर्षस्य वातावरणं जातम्। कुलपति अशोककुमारः उक्तवान् यत् ऋतिकायाः एषा सफलता विश्‍वविद्यालये प्रदीयमानस्य वैज्ञानिक–प्रशिक्षणस्य अनुशासित–क्रीडा–संस्कृतेश्च परिणामः अस्ति।

सः अवदत् यत् एषा उपलब्धिः अन्य–विद्यार्थिनः अपि प्रेरयिष्यति। विश्‍वविद्यालय–परिवारः ऋतिकां विश्व–मुक्केबाजी–कप् २०२५ इत्यस्य कृते शुभाशंसाः दत्तवान् तथा विश्वासं व्यक्तवान् यत् सा भविष्ये अपि राष्ट्रस्य च विश्‍वविद्यालयस्य च नाम यशसा प्रकाशयिष्यति।

---------------

हिन्दुस्थान समाचार