Enter your Email Address to subscribe to our newsletters
गौतमबुद्धनगरम्, ८ अक्तुबरमासः (हि. स.)। यातायातचलानप्रणालीं सम्पूर्णतया स्वचालितां डिजिटलरूपेण च कर्तुं गौतमबुद्धनगरस्य क्षेत्रे ३९ स्थिते राजकीयस्नातकोत्तरमहाविद्यायालये अध्यापकाभ्यां संयुक्तेन प्रयत्नेन एषा नूतना तन्त्रज्ञानप्रणाली विकसिताऽस्ति, या स्वयमेव वाहनानां सम्बन्धिनां सर्वेषां पात्राणां स्थितिं परीक्ष्य नियमलङ्घनस्य अवस्थायां विना मनुष्यहस्तक्षेपेन एव चलानं निर्गमयितुं शक्नोति। अस्य प्रणाल्याः कृते भारतसर्वकारस्य अधिकारविभागेन १२ जुलाईदिने स्वाधिकारपत्रं दत्तम्।
विद्यालयस्य प्राचार्येण डॉ. दिनेशचन्देन निर्देशनं दत्तम्। संगणकविज्ञानविभागाध्यक्षः डॉ शिशुपालसिंह: सिकन्दरावादे स्थिते मूलशिक्षाविभागे कार्यरतोऽस्ति रीनारानी च इत्येतौ द्वौ मिलित्वा एतां प्रणालीं सज्जी कृतवन्तौ।
उभाभ्यां संयुक्तेन सॉफ्टवेयर-तथा रेडियो-फ्रिक्वेन्सी-परिचय-
तन्त्रज्ञानस्य साहाय्येन एषा प्रणाली विकसिताऽस्ति या यातायात-
आरक्षकाणां कार्यप्रणालीं पूर्णतया डिजिटलरूपेण परिवर्तयिष्यति। अस्याः नाम “ऑटोमेटेड व्हीकल कम्प्लायन्स् एण्ड डिजिटल चालान् जेनेरेशन् सिस्टम् युजिङ् रेडियो फ्रिक्वेन्सी बेस्ड् डिटेक्शन” इति दत्तम्। अस्याः प्रणाल्याः कृते भारतसर्वकारस्य अधिकारविभागेन १२ जुलाईदिने अधिकारपत्रं प्रदत्तम्।
एषा प्रणाली न केवलं अतिक्रमगत्याः, निषिद्धस्थाने वाहननिवेशनस्य, वा सीट्-बेल्ट्-अनुपालनस्य सामान्ययातायातलङ्घनानाम् अन्वेषणं करिष्यति, अपितु बीमापत्रम्, प्रदूषणप्रमाणपत्रम्, पञ्जीकरणम्, चालकस्य एतेषां पात्राणां वैधतां स्वयमेव परीक्ष्य भविष्यति। अस्यां प्रणाल्यां रेडियो-फ्रिक्वेन्सी-परिचय-
तन्त्रज्ञानस्य उपयोगः कृतः। मार्गेषु प्रमुखेषु स्थलेषु स्थापिताः आरएफआईडी-सेंसर इति यानगतस्य वाहनस्य टैग इति परीक्ष्य तत्सम्बद्धां सूचनां त्वरितं केन्द्रीयसॉफ्टवेयरप्रणाल्यां प्रेषयिष्यति।
सॉफ्टवेयर इति वाहनस्य पात्राणां वैधतां सर्वकारीसूचना-सहितं मिलापयिष्यति। यदि बीमापत्रम्, चालकपरवाना वा प्रदूषणप्रमाणपत्रम् समाप्तं दृश्यते, तर्हि एषा प्रणाली स्वयमेव चलानं उत्पादयिष्यति।
डॉ शिशुपालसिंहः उक्तवान् यत् यावत् चालानप्रक्रिया कैमरा-चित्रेभ्यः प्राप्तसूचनायाः तथा ओसीआर् (ऑप्टिकल् कैरेक्टर् रिकग्निशन्) तन्त्रज्ञानस्य आधारे स्थिताऽस्ति, येन सर्वेषां पात्राणां स्थितिरीक्षणं न सुलभं भवति। परन्तु अस्मिन् नूतने तन्त्रे वाहनस्य परिचयेन सह सर्वेषां पात्राणां विवरणं स्वयमेव लभ्यते।
अस्याः प्रणाल्याः प्रयोगेन यातायात- आरक्षकस्य कार्यभारः अत्यल्पः भविष्यति। अधिकारिणः केवलं स्वचालितरिपोर्टल इति दृष्ट्वा यथायोग्यं कार्यं कर्तुं शक्नुवन्ति। चालानप्रक्रिया पारदर्शिता भविष्यति, येन भ्रष्टाचारस्य सम्भावना अपि न्यूनता भविष्यति।
प्राचार्यः डॉ दिनेशचन्दः उक्तवान्— “एषा नूतना आविष्कृतिः पथसुरक्षायाः डिजिटल-प्रशासनस्य च क्षेत्रे मीलस्तम्भवत् सिद्ध्यिष्यति।”
---
हिन्दुस्थान समाचार / अंशु गुप्ता