सुलतानपुरे 28 घंटानां शोभायात्रोत्तरं बडी दुर्गा मातुः विसर्जनं संपन्नम्
सुलतानपुरम्, 9 अक्टूबरमासः (हि.स.)।सुलतानपुरनगरमध्ये बुधवासरस्य रात्र्यन्ते महती दुर्गाप्रतिमाया: विसर्जनं सीताकुण्डस्थितायां गोमतीनद्याः तटे सम्पन्नम्। प्रायः अष्टाविंशतिघण्टापर्यन्तं प्रवृत्तायाः शोभायात्रायाः अनन्तरं मूर्तीनां विसर्जनं सम्पन्नम्
सुरक्षा मे तैनात पुलिस


बड़ी दुर्गा माता का गोमती मे विसर्जन


सुलतानपुरम्, 9 अक्टूबरमासः (हि.स.)।सुलतानपुरनगरमध्ये बुधवासरस्य रात्र्यन्ते महती दुर्गाप्रतिमाया: विसर्जनं सीताकुण्डस्थितायां गोमतीनद्याः तटे सम्पन्नम्। प्रायः अष्टाविंशतिघण्टापर्यन्तं प्रवृत्तायाः शोभायात्रायाः अनन्तरं मूर्तीनां विसर्जनं सम्पन्नम् अभवत्।

एतस्मिन् समये शासनव्यवस्थायाः सुव्यवस्थानिमित्तं जिलाधिकारी कुमारहर्षः, पुलिसअधीक्षकः कुंवरानुपमसिंहश्च घाटं चौकं च आगत्य केन्द्रीयपूजासमितेः पदाधिकाऱिभिः सह समागच्छताम्।

मातर्दुर्गायाः विसर्जनशोभायात्रायां नगरस्य प्रमुखमार्गाः जयघोषैः भक्तिगीतैश्च निनदिताः आसन्, येन कारणेन सम्पूर्णे नगरे श्रद्धाभक्त्याः उत्साहस्य च वातावरणं निर्मितम्।

नगरपालिकाध्यक्षः प्रवीणकुमारअग्रवालः दुर्गापूजामहोत्सवात् आरभ्य मूर्तिविसर्जनयात्रापर्यन्तं सक्रियः आसीत्। तस्य निरीक्षणे सीताकुण्डघाटात् आरभ्य विसर्जनमार्गपर्यन्तं प्रकाशव्यवस्था विद्युत्सुव्यवस्था च सुस्थितीकरणेन सुरक्षिते स्थिते च।

सुरक्षायाः कारणेन घाटे SDRF इत्यस्य दलं अपि नियुक्तम् आसीत्। मङ्गलवासररात्रौ दशवादने उपरान्तं जिलाधिकारी पुलिसअधीक्षकौ च आरत्याः अनन्तरं महादुर्गारथं हरितध्वजेन प्रेषयामासताम्, ततः प्रभृति शोभायात्रा निरन्तरं प्रवृत्ता।

पुलिसअधीक्षकस्य निर्देशेन दुर्गाप्रतिमाविसर्जनकाले शाहगञ्जचौकी तथा सीताकुण्डघाटयोः संस्थापितात् CCTV नियंत्रणकक्षात् विसर्जनस्थलानां सततम् निरीक्षणं कृतम्।

विसर्जनप्रक्रियायाः शान्तिपूर्वकं सम्पादनाय SWATदलम्, अपरजिलाधिकारी (वित्त–राजस्व) राकेशसिंहः, अपरजिलाधिकारी (प्रशासन) गौरवशुक्लः, अपरपुलिसअधीक्षकः अखण्डप्रतापसिंहः (अम्बेडकरनगर), अपरपुलिसअधीक्षकः श्यामदेवविष्टः, क्षेत्राधिकारी शिवम्मिश्रः, क्षेत्राधिकारी (नगर) प्रशान्तसिंहः, उपजिलाधिकारी (सदर) बिपिनकुमारद्विवेदी, नगरकोतवालः धीरजकुमारः च समग्रेण पुलिसबलसहितं नियुक्ताः आसन्।

------------

हिन्दुस्थान समाचार