Enter your Email Address to subscribe to our newsletters
गुवाहाटी, 9 अक्टूबरमासः (हि.स.)।अस्मिन् असमराज्ये द्वितीयवारं शासनभारं स्वीकृत्य मुख्यमन्त्री डॉ॰ हिमन्त बिस्वः शर्माणामकः राज्ये सरकारीनियुक्त्याः प्रदाने विषये घोषणा कृतवान् आसीत्। अस्याः श्रृंखलायाम् सर्वकारेण अद्यावधि सुमारे एकलक्षपञ्चदशसहस्राधिकाः (प्रायः डेढलक्ष) नियुक्तयः प्रदत्ताः। स्वघोषितसङ्ख्यानां लक्ष्यं सरकारा पूर्वमेव पूर्णं कृतवती।
मुख्यमन्त्रिणा डॉ॰ शर्मणा सरकारीनियुक्त्याः लक्ष्यं अद्य पुनरपि विस्तार्यत इति निगदितम्। गुरुवासरे सामाजिकमाध्यमे फेसबुक् इत्यस्मिन् प्रकाशितायां सूचनायां सः उक्तवान् यत् — “असम-सीधानियुक्तिपरीक्षायाः अन्तर्गतं तृतीयश्रेणीपरिणामाः अक्टोबरमासस्य दशमे दिने प्रातः १०.३० वादने प्रकाशिताः भविष्यन्ति।मुख्यमन्त्रिणा सर्वेषां परीक्षार्थिनां प्रति हार्दिकाः शुभाशंसाः अपि प्रेषिताः।
------------------
हिन्दुस्थान समाचार