अयोध्यायां वित्तमन्त्री निर्मला सीतारमण स्वपरिवारेण सहितं प्रभोः श्रीरामललायाः आरतीम् कृतवती
केन्द्रमन्त्री महोदया श्रीरामदरबारं, माँ दुर्गां च दर्शनं कृत्वा महादेवस्य जलाभिषेकम् अकार्षीत्। न्यासस्य महामन्त्री चम्पतरायः परिसरस्य भ्रमणं करयन् विस्तृतं विवरणम् प्रदत्तवान्। अयोध्या, 9 अक्टूबरमासः (हि.स.)। भारतस्य सांस्कृतिकराजधानी इति ख्
वित्त मंत्री निर्मला सीतारमण


वित्त मंत्री निर्मला सीतारमण


वित्त मंत्री निर्मला सीतारमण


वित्त मंत्री निर्मला सीतारमण


केन्द्रमन्त्री महोदया श्रीरामदरबारं, माँ दुर्गां च दर्शनं कृत्वा महादेवस्य जलाभिषेकम् अकार्षीत्।

न्यासस्य महामन्त्री चम्पतरायः परिसरस्य भ्रमणं करयन् विस्तृतं विवरणम् प्रदत्तवान्।

अयोध्या, 9 अक्टूबरमासः (हि.स.)। भारतस्य सांस्कृतिकराजधानी इति ख्यातायां प्रभोः श्रीरामस्य नगर्याम् अयोध्यायां गुरुवासरे केन्द्रिय-वित्तमन्त्री निर्मला सीतारमण स्वपरिवारसहित प्रभोः रामललस्य दर्शनं कृत्वा आरतीम् अववर्तयत्। तया श्रीरामदरबार-परिसरे स्थितायाः माँ दुर्गायाः दर्शनं कृतम्, तथा कुबेरटीले देवाधिदेवमहादेवस्य पूजनं जलाभिषेकं च अकारि।

केन्द्रियवित्तमन्त्री निर्मला सीतारमण बुधवासरे द्विदिनीय-यात्रायां स्वपरिवारसहितम् उत्तरप्रदेशस्य श्रीरामनगर्याम् अयोध्या प्राप्ता आसीत्। श्रीरामजन्मभूमि-तीर्थक्षेत्र-न्यासेन केन्द्रियवित्तमन्त्रिणः पुष्पगुच्छेन स्वागतं कृतम्। तीर्थक्षेत्रन्यासस्य महामन्त्री चम्पतराय महोदयः मन्त्रिमहोदयायै मन्दिरपरिसरस्य भ्रमणं करयन् निर्माणसम्बद्धानि महत्त्वपूर्णानि विवरणानि तया सह सूचितवान्। निर्मला सीतारमण मन्दिरस्य भव्यरूपं दृष्ट्वा श्रद्धा-गौरवयोः भावौ व्यक्तवन्ती। तस्मिन् अवसरि मन्दिरपरिसरस्य सुरक्षा-दर्शनव्यवस्था-विकासयोजनादिषु अपि चर्चा अभवत्।

आध्यात्मिकतेजसा आभासिता वित्तमन्त्री

आरतीकाले श्रीरामस्य दरबारः भक्तिरसेन सम्पूर्णः अभवत्। सरयूतीरात् आगता मन्दसमीरणा, मन्दिरप्राङ्गणे गुंजमानानि भजनानि च, वातावरणं परमपवित्रं कृतवन्तः। वित्तमन्त्रिणा दीपप्रज्वलनं कृत्वा, उपस्थितैः श्रद्धालुभिः सह “जय श्रीराम” इति उद्घोषः कृतः।

अयोध्याविश्वस्य आध्यात्मिककेन्द्ररूपेण गौरवपदम् आपन्ना

अयोध्या इदानीं केवलं नगरं नास्ति, किन्तु भारतस्य आस्थासंस्कृति-सभ्यता च इत्येतयोः सजीवप्रतीकम् अभवत्। श्रीरामजन्मभूमि-मन्दिरनिर्माणस्य समापनानन्तरं देशविदेशेभ्यः आगच्छतां श्रद्धालूनां संख्यायां निरन्तरवृद्धिः जातास्ति। अत्र आगच्छन्तः सर्वे श्रद्धालवः रामायणकालीन-इतिहासस्य आधुनिकभव्यतायाः च अद्भुतं संगमं पश्यन्ति।

अस्मिन् अवसरे उत्तरप्रदेशस्य वित्तमन्त्री सुरेशखन्ना तथा कृषिमन्त्री च अयोध्याजनपदस्य प्रभारीमन्त्री सूर्यप्रतापशाही अपि उपस्थितौ आस्ताम्।

हिन्दुस्थान समाचार / अंशु गुप्ता