Enter your Email Address to subscribe to our newsletters
वाराणसी, 09 अक्टूबरमासः (हि. स.)।“स्वच्छतैव सेवा २०२५” इत्यस्य अभियानस्य अन्तर्गते वाराणस्य रेलयानयन्त्रनिर्माणकारखानायाः (बरेका) मुख्यद्वारे स्क्रैप-धातुना निर्मिता “चक्रासनयोगमूर्ति” प्रतिष्ठापिता अस्ति।
बरेका-संस्थानस्य जनसम्पर्कअधिकारी राजेशकुमारः अवदत् यत् योगः, ऊर्जा, स्वस्थशरीरं, स्वच्छता च — एतेषां संदेशं जनानां प्रति प्रेषयितुं चक्रासनरूपिणी योगमूर्ति मुख्यद्वारे स्थापिता।
प्रधानमन्त्रिणो नरेन्द्रमोदिनः नेतृत्वेन योगस्य महत्त्वं विश्वमञ्चे प्रतिष्ठाप्य विश्वाय सन्देशः दत्तः इति अपि सः उक्तवान्।
तेन अवदत् यत् वाराणसी-रेलयानयन्त्रकारखानस्य सर्वे अधिकारी कर्मचारिणश्च योगं स्वजीवने अपनयन्तु इत्यर्थं अस्माभिः प्रयासः कृतः। गृहे गृहे योगं स्वच्छतां च प्रसारितुं वयं सर्वतोमुखं प्रयत्नं कुर्मः।
---------------
हिन्दुस्थान समाचार