लीलियमस्य कृष्या काश्तकाराणाम् आयवृद्धिपरामर्शनं शुभारब्धम्
गोपेश्वरम्, 09 अक्टूबरमासः (हि.स.)।चमोलीजिलायां उद्यानविभागस्य पक्षेण लीलियमफूलस्य उत्पादनद्वारा कृषकाणां आयवृद्धये प्रयासः आरब्धः अस्ति।जिलाधिकारिणः सन्दीपतिवारीमहाभागस्य मार्गदर्शनेन चमोलिजनपदे पुष्पकृषिद्वारा कृषकाणां आयवृद्ध्यर्थं उद्यानविभागेन
काश्तकारों को इस तरह बांटे जा रहे लीलियम के बल्ब।


गोपेश्वरम्, 09 अक्टूबरमासः (हि.स.)।चमोलीजिलायां उद्यानविभागस्य पक्षेण लीलियमफूलस्य उत्पादनद्वारा कृषकाणां आयवृद्धये प्रयासः आरब्धः अस्ति।जिलाधिकारिणः सन्दीपतिवारीमहाभागस्य मार्गदर्शनेन चमोलिजनपदे पुष्पकृषिद्वारा कृषकाणां आयवृद्ध्यर्थं उद्यानविभागेन प्रबलः प्रयासः आरब्धः। अस्याः योजना-अन्तर्गतम् अधुना विभागेन जिलायाः योजना-माध्यमेन एतस्मिन् वर्षे जनपदे विशालपद्धत्याः अन्तर्गतं लीलियमफूलस्य व्यापारिककृषेः आरम्भः कृतः।

विभागस्य पक्षेण जिलायां लीलियमस्य कन्दानां (बल्बानां) वितरणकार्यं प्रारब्धम्। दशोलीखण्डस्य यात्रा, मण्डल, बैरागणा, कोटेश्वरग्रामेषु द्वादशभ्यः कृषकेभ्यः लीलियमस्य चतुर्विंशतिसहस्रबल्बाः वितरिताः।

मुख्यउद्यानाधिकारी नितेन्द्रसिंहनामकः उक्तवान् यत्, चमोलिजनपदे गतद्विवर्षपर्यन्तं विभागेन षोडशभ्यः कृषकेभ्यः सह पायलट्-परियोजनारूपेण लीलियमस्य उत्पादनं क्रियते, यस्य फलतः कृषकानां उत्तमा आय लभ्यते।

जिलाधिकारिणः सन्दीपतिवारीमहाभागस्य निर्देशनात् एतस्मिन् वर्षे जनपदे लीलियमोत्पादनवृद्ध्यर्थं योजना निर्मिता। अस्याः योजनायाः अन्तर्गतेन जिलायोजनामार्गेण उन्नविंशतिलक्षरूप्यकाणां धनराशिः अनुमोदिता। विभागेन एतस्मिन् वर्षे लीलियमस्य एकलक्षबल्बानां रोपणस्य योजना निर्मिता।वर्तमानकाले त्रिंशद्द्वयेभ्यः कृषकेभ्यः पञ्चाशत्सहस्रबल्बाः वितर्य रोपणं सम्पन्नम्। विभागस्य पक्षेण कृषकेभ्यः यत्र लीलियमकृषेः तांत्रिकज्ञानं प्रदीयते, तत्र लीलियमफूलस्तम्भानां विपणनस्य अपि व्यवस्था कृता।

एतेन कृषकाणां आयवृद्धिः भविष्यति, जीविकोपार्जनसाधनानि च दृढत्वं प्राप्स्यन्ति।

हिन्दुस्थान समाचार