एगरानगरे कालीपूजायाः पूर्वम् आरक्षकाणां महत्‌ जयम्‌, विशालमात्रायां  अवैधक्रीडकविस्फोटकानि गृहीतानि
पूर्वमेदिनीपुरम्‌, 9 अक्तुबरमासः (हि.स.)। कालीपूजापूर्वं एग्रा-आरक्षकस्थान: महतीं सफलताां प्राप्तवान्। बुधवासरस्य रात्रौ ओडिशाराज्यतः आनितानि विशालमात्रायां अवैधक्रीडाकविस्फोटकानि आरक्षकैः गृहीतानि। आरक्षकस्रोतानुसारं गोपनीय-सूचनायाः आधारेण एग्रा-
एग्रा पुलिस की कार्रवाई


एगरा में काली पूजा से पहले पटाखे बरामद


एगरा मे पटाखे बरामद


एगरा में भारी मात्रा में अवैध पटाखे बरामद


पूर्वमेदिनीपुरम्‌, 9 अक्तुबरमासः (हि.स.)। कालीपूजापूर्वं एग्रा-आरक्षकस्थान: महतीं सफलताां प्राप्तवान्। बुधवासरस्य रात्रौ ओडिशाराज्यतः आनितानि विशालमात्रायां अवैधक्रीडाकविस्फोटकानि आरक्षकैः गृहीतानि। आरक्षकस्रोतानुसारं गोपनीय-सूचनायाः आधारेण एग्रा-द्वितीय-खण्डस्य बैताईप्रदेशे छापामारी-अभियानं कृतम्। तस्मिन् समये एकस्मात् इञ्जन्-वैन्-नाम्नः वाहनात् प्रायः चतुर्-लक्ष-रूप्यक-मूल्यस्य अवैधक्रीडकविस्फोटकानि गृहीतानि।

एतत् -अभियानं एग्रा-थानाप्रभारी अरुणकुमारखान-नाम्ना नेतृत्वेन सम्पन्नम्। तेन सह आरक्षकाधिकारिणौ बुद्धदेव-मन्ना तथा समीरन्-दे इत्येतौ अन्ये च कर्मिणः उपस्थिताः आसन्। आरक्षकेन इञ्जन्-वैन्-वाहनं गृहीतम्, द्वौ अवैधक्रीडकविस्फोटकानां व्यवसायिनौ च बन्धिकृतौ। उभयोः अपराधिनोः निवासः एग्रा-द्वितीय-खण्डस्य उत्तरताजपुर-प्रदेशे इति उक्तम्।

एग्रा-थानाप्रभारी अरुणकुमारखान: अवदत् यत् अपराधिनौ गुरुवासरे कांथि-महकमा-न्यायालयस्य मध्ये प्रस्तुतौ भविष्यतः। उल्लेखनीयम् यत् खादिकुल्-विस्फोट-काण्डानन्तरं एग्रा-थाना-आरक्षकाः अवैधक्रीडकविस्फोटकानां विरुद्धं सततम् अभियानं सञ्चालयन्त: आसन्, तस्मिन् च पुनः पुनः सफलतां प्राप्तवन्तः।

---

हिन्दुस्थान समाचार / अंशु गुप्ता