Enter your Email Address to subscribe to our newsletters
नवदेहली, 9 अक्टूबरमासः (हि.स.)। केन्द्रीयगृहकार्य मन्त्री अमितशाहः गुरुवासरे अवदत्— “शीतकालः समीपः अस्ति, दह्यते च यत् आतङ्कवादिनः हिमवृष्टेः अवसरं लभन्तः सीमा अतिक्रमणस्य प्रयत्नं कर्तुं शक्नुवन्ति, अतः सुरक्षाबलैः सर्वासु परिस्थितिषु प्रत्युत्तरदाने पूर्णतया सज्जत्वं धार्यम्।”
अमितशाहेन अत्र जम्मू-कश्मीरप्रदेशस्य सुरक्षास्थितेः उच्चस्तरीया समीक्षा–सभा अध्यक्षता कृता। सभायां सः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे केन्द्र–सरकारा जम्मू–कश्मीरप्रदेशं आतंकवादमुक्तं कर्तुं दृढप्रतिज्ञा अस्ति। तेन उक्तं यत् सुरक्षासंस्थाभिः संयोजितप्रयत्नैः शत्रुदेशैः पोषितं आतंकवादी–जालं प्रायः विनष्टम्।
सः अवदत्— “अस्माकं सुरक्षाबलानि जम्मू–कश्मीरस्य शान्तेः सुरक्षायाः च विघ्नं करणीयं यत्किञ्चिदपि प्रयत्नं निवारयितुं पूर्णस्वातन्त्र्येण युक्तानि सन्ति। सरकारः आतंकवादं मूलतः उन्मूलयितुं सर्वं प्रयत्नं करोति।”
गृहकार्यमन्त्रिणा तेन अद्यतनकालिके पहलगाम–आतङ्कवादी–आक्रमणानन्तरं केन्द्रशासितप्रदेशप्रशासनस्य तथा सुरक्षा–संस्थायाः शीघ्रप्रतिक्रियायाः प्रशंसा कृता। तेन उक्तं यत् एतेन उपायेन जम्मूकश्मीरस्य सुरक्षा–व्यवस्था अधिकं सुदृढा जाता, नूतन–षडयंत्रस्य विफलतायाः च साधनं जातम्।
अमितशाहः अवदत् यत् आतंकवाद–विरुद्धेषु अभियानलनेषु सर्वेषां सुरक्षासंस्थानां पारस्परिक–सामञ्जस्यं अतीव आवश्यकम्। तेन निर्दिष्टं यत् आसूचना–विनिमयः संयुक्त–कार्यान्वयनं च सुदृढीकृत्य सम्भाव्यमानं किञ्चनापि संकटं समये निवारयितुं प्रयत्नः क्रियताम्।
विशेषतः तेन उक्तं यत् यथा–यथा शीतकालः प्रवर्धते, तथैव आतंकवादिनः हिमवृष्टेः तथा न्यूनदृश्यतायाः लाभं कृत्वा सीमातिक्रमणं कर्तुं प्रयत्स्यन्ते। सः अवदत्— “अस्माकं सुरक्षाबलानि सर्वेभ्यः ऋतुभ्यः सर्वासु च परिस्थितिषु सज्जानि स्युः, यथा कश्चन आतंकवादीतत्वः सीमान्तप्रदेशं प्रविष्टुं न शक्नुयात्। सीमापारतः आगच्छन्तः आतङ्कप्रयत्नाः कठोरतया प्रत्युत्तरं प्राप्स्यन्ति। अस्माकं लक्ष्यं अस्ति यत् जम्मू–कश्मीरप्रदेशे शान्तिः स्थैर्यं च प्रतिष्ठाप्यन्ताम्, जनाः विकासस्य सामान्यजीवनस्य च लाभं प्राप्नुयुः।”
अमितशाहः अवदत्— “जम्मू–कश्मीर–जनानां आकाङ्क्षाणां पूर्तिः केन्द्र–सरकारायाः सर्वोच्च–प्राथमिकता अस्ति। मोदिसरकारा जम्मू–कश्मीरस्य सर्वाङ्ग–विकासाय अभूतपूर्वाणि उपायानि स्वीकृतवती। आतंकवादस्य उन्मूलनं विकासस्य च प्रवर्तनं, उभयं अस्माकं रणनीतेः अभिन्नाङ्गे स्तः।”
सः अधिकारिणः निर्दिष्टवान् यत् आतंकवाद–विच्छेदेन सह विकासयोजनाः शीघ्रतया प्रगत्या यान्तु, यथा प्रदेशस्य युवानः रोजगार–अवसरैः युक्ताः स्युः, मार्गभ्रंशाच्च रक्ष्यन्ते।
सभायां सः सीमासुरक्षा, आतंकवादप्रतिरोध–अभियानानि, सूचनाजालस्य सुदृढीकरणम्, स्थानिक–आरक्षकैः केन्द्रीय–बलैः च उत्तमसामञ्जस्यस्य विषयेषु विस्तृतां चर्चा अकुरुत। तेन उक्तं— “जम्मूकश्मीरप्रदेशे अधुना नवीना शान्तेः स्थैर्यस्य च प्रभा दृष्टव्यं अस्ति। एषा अवसरः स्थायित्वाय रूपांतरितव्यः, तत् च केवलं सजगताएकतासामूहिकप्रयत्नैः सम्भवति।”
अस्मिन्नेव सभायां जम्मूकश्मीर–उपराज्यपालः मनोजसिन्हा, केन्द्रीय–गृह–सचिवः, आसूचनाब्यूरोनिदेशकः, स्थलसेनाध्यक्षः, प्रदेशस्य मुख्यसचिवः, आरक्षकमहानिदेशकः च, तथा केन्द्रीयसशस्त्र–आरक्षकबल–सेनायाः च वरिष्ठ–अधिकारी उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता