Enter your Email Address to subscribe to our newsletters
खडगपुरम् 09 अक्टुबरमासः (हि.स.) खड्गपुरे भारतीयप्रौद्योगिकीसंस्थाने प्रेरणादायिनी नेतृत्ववार्तायाः आयोजनं कृतम्। तस्मिन् प्रसिद्धः शिक्षाविद् उद्यमी च लेखकः विवेकवाध्वा इत्याख्यः “वैज्ञानिककल्पनातः यावत् वास्तविकताम् – कथं वेगवर्धमानाः प्रौद्योगिक्यः नवयुवनवोन्मेषकर्तॄन् सशक्तयन्ति” इति विषयेन स्वान् विचारान् अवोचत्।
बुधवासरस्य आयोजनसमये वाध्वेन कृत्रिमबुद्धेः, यन्त्रमानवप्रणालीनां, जैवप्रौद्योगिक्याः, संगणनस्य च अत्यान्तसमीक्षितविकासस्य विषये प्रकाशः कृतः। सः अवदत् यत् प्रौद्योगिकप्रगति: इदानीं गुणात्मकतया शीघ्रं वर्धते, येन अद्यतनकाले यत् काल्पनिकं तदेव वास्तविकं जातम्।
गुरुवासरे संस्थानस्य प्रकाशनपत्रे उक्तं यत् विवेकवाध्वा शिक्षाविद् भारतीयानां नवोन्मेषकर्तॄणां संस्थानानां च सामर्थ्यं निर्दिश्य उक्तवान् यत् ते एतस्य प्रगत्याः उपरि आरोहणं कृत्वा तां रूपयित्वा नेतृत्वं कर्तुं शक्नुवन्ति। सः उत्तरदायित्वयुक्तेन, समदृष्ट्या, मानवकेन्द्रितेन च मार्गेण नवोन्मेषस्य आवश्यकता इति अपि अवदत्।
कार्यक्रमे अपि उक्तं यत् भारतः परम्परागतमार्गान् त्यक्त्वा नूतनप्रौद्योगिकमार्गेषु शीघ्रं गच्छति, येन वैश्विकसमस्याः समाधानं प्राप्नुयुः, नवयुवननवोन्मेषकर्तारः च सशक्ताः भविष्यन्ति।
अस्मिन् सत्रे अध्यापकाः, छात्राः, नवोन्मेषकर्तारः च बहुसंख्यया उपस्थिताः आसन्, ये च जगतः प्रमुखेषु प्रौद्योगिकचिन्तकेषु एकस्मात् प्रेरणां प्राप्नुवन्।
हिन्दुस्थान समाचार / अंशु गुप्ता