Enter your Email Address to subscribe to our newsletters
शिमला, 09 अक्टूबरमासः (हि.स.)।डीजीपी पदस्य स्पर्धायां सम्मिलितः १९९० तमे वर्षस्य वरिष्ठः आईपीएस अधिकारी श्री श्यामभगतनेगी इत्यस्मै प्रदेशसरकारेण राज्यसचिवालये नियुक्तिः प्रदत्ता अस्ति। तं सामाजिकन्याय-अधिकारिताविभागस्य अतिरिक्तमुख्यसचिवपदे नियोजितवन्तः। अस्मिन् सम्बन्धे बुधवासरस्य सायंकाले कार्मिकविभागेन अधिसूचना प्रकाशिता। तस्यामुक्तं यत्, एषा नियुक्तिः राज्यपालस्य अनुमत्यानुसारं तत्क्षणप्रभावेन क्रियते इति।
एतस्मिन्नेव अधिसूचनासङ्गे सरकारा ३० सितम्बर २०२५ तमे दिने निर्गतं आदेशं अपि रद्दं कृतवती, यस्य अन्तर्गते १९९६ तमे वर्षस्य आईपीएस अधिकारी अभिषेकत्रिवेदी इत्यस्मै सामाजिकन्याय-अधिकारितासचिवपदं प्रदत्तम् आसीत्। स आदेशः अधुना तत्क्षणप्रभावेन निरस्तः इति निर्दिष्टम्।
श्यामभगतनेगी १९९० तमे वर्षस्य आईपीएस अधिकारी सन्ति तथा च प्रदेशस्य वरिष्ठतमः आईपीएस अधिकारी इति ख्याताः। ते अगस्तमासे एव केन्द्रसर्वकारतः प्रतिनियुक्तिं समाप्त्य प्रदेशं प्रत्यागतवन्तः। श्यामभगतनेगी प्रदेशस्य नूतनपुलिसमहानिदेशक (डीजीपी) पदस्य प्रमुखदावेदारः अपि अभवत्। अस्मिन् समये १९९३ तमे वर्षस्य आईपीएस अधिकारी अशोकतिवारी इत्यस्मै प्रदेशस्य कार्यवाहकडीजीपीरूपेण दायित्वं वहति।
---------------
हिन्दुस्थान समाचार