Enter your Email Address to subscribe to our newsletters
वाशिङ्गटन:, 9 अक्तुबरमासः(हि.स.)। अमेरिकी-राष्ट्रपतिः डोनाल्ड-ट्रम्पः अद्य किञ्चित् पूर्वमेव अवदत् यत् इस्रायलः हमास् च तस्य गाजा-शान्ति-योजनां स्वीकर्तुं सज्जौ स्तः। उभाभ्यां तस्य विंशतिपद्या योजना स्वीकृता। युद्धविरामस्य प्रथमे चरणे उभाभ्यां प्रस्तावे हस्ताक्षरितम्। अनुमान्यते यत् बन्धकानां मोचनम् सोमवासरे आरभ्स्यते। उल्लेखनीयम् यत् मिश्रदेशस्य शर्म-अल-शेख-नगरे इस्रायल-हमासयोः मध्ये गाजायुद्धस्य समापनाय परोक्षवार्ता प्रवर्तते। हमासपक्षेण बन्धकानां फलस्तीनीय-बन्दिनां च परस्पर-विनिमयाय सूची समर्पिता।
सीएनएन-समाचार-वाहिन्याः वृत्तान्तेन ज्ञायते यत् ट्रम्पः एतां घोषणां कर्तुं पूर्वं 'स्टेट-डाइनिङ्ग-कक्षात्' निर्गत्य ' ओवल ऑफिस 'मध्ये दूरवाणीसंवादं कृतवान्। तस्मात् प्रायः एकहोरापूर्वं सः स्टीव्-विटकॉफ् नाम्ना व्यक्तिना स्वजामात्रा जारेड्-कुशनर-इत्यनेन सह संवादं कृतवान्। किञ्चित् समयानन्तरं सः इस्रायल-हमासयोः मध्ये प्रवर्तमानस्य संवादस्य प्रगतिं स्वस्य ' त्रुथसोशियल' माध्यमे प्रकाशितवान्।
श्वेतगृहस्य वरिष्ठाधिकारिणा उक्तं यत् अमेरिकायाः अनुमानम् अस्ति यत् बन्धकानां मोचनम् सोमवासरे आरभ्स्यते। सः अधिकारी अवदत् यत् एतद् संधिपत्रं गुरुवासरे इस्रायली-मन्त्रिपरिषदः पुरतः स्थाप्यते। ततः युद्धविराम-योजनायाः कार्यान्वयनं आरभ्स्यते।
एतस्मिन् मध्ये इस्रायली-प्रधानमन्त्री बिन्यामिन-नेतन्याहू नाम्ना ट्रम्पं प्रति तस्य प्रयासानां कृते आभारः व्यक्तः तथा च तं इस्रायली-संसदं (नेसेट्) सम्बोधयितुं आमन्त्रितवान्। प्रधानमन्त्र्याः कार्यालयस्य अनुसारं ट्रम्पः नेतन्याहून् तस्य नेतृत्वस्य कर्मणश्च कृते अभिनन्दितवान्। इतः च युद्धविरामस्य वृत्तिः वनग्निवत् शीघ्रं प्रसृता। बन्धकपरिवारैः प्रीतिः व्यक्ता।
संकीर्णमार्ग-बन्धकस्य जिव्-बर्मन्-नाम्नः भ्राता लिरन्-बर्मन् नामकः संधेः घोषणानन्तरं एक्स्-माध्यमे अवदत् यत् सः अत्यन्तं हृष्टः अस्ति। सः शीघ्रं स्वजनैः सह मिलितुं इच्छति। इस्रायली-रक्षा-बलस्य सैनिकः इतेयचेन् (यस्यान् शवः हमासस्य समीपे अस्ति) इत्यस्य पितृनाम रूबीचेन इत्यनेन एकस्मिन् पोस्ट् मध्ये राष्ट्रपतिं डोनाल्ड्-ट्रम्पं अमेरिकी-वार्तादलस्य च अन्यसदस्यान् प्रति कृतज्ञता व्यक्ता।
इस्रायल-सर्वकारस्य प्रवक्त्रा उक्तं यत् प्रधानमन्त्रिणा बिन्यामिन-नेतन्याहू गुरुवासरे मन्त्रिपरिषद: सभायाम् सर्वाणि विवरणानि प्रस्तुत्यन्ते। प्रधानमन्त्रिणा उक्तं यत् एतद् दिनम् इस्रायलस्य कृते महद् दिनम्। उल्लेखनीयम् यत् इस्रायली-न्यायव्यवस्थायाः अनुसारं बन्धकसंधेः अन्तर्गतं फलस्तीनीय-बन्धिनां विमोचनस्य निर्णयः मन्त्रिपरिषदः अनुमतिं विना न शक्यते। यदि मन्त्रिपरिषद् एतस्य पक्षे मतदानं करोति तर्हि उच्चन्यायालये याचिकां दातुं लघुकालः भवति। तस्यां बाधायां निवारितायां पश्चात् एव सर्वकारः मोचनप्रक्रियायाः कृते अग्रे गन्तुं शक्नोति।
---
हिन्दुस्थान समाचार / अंशु गुप्ता