मुख्यमंत्री मुख्यमंत्रियुवोद्यमीविकासाभियानयोजनायाः लाभार्थिभ्योऽददात् चेकपत्रम्
विश्वकर्मा श्रम सम्मान योजनायाः अंतर्गते लाभार्थिभ्यो दत्ता टूल किटसामग्री, नव निर्मित कन्वेंशनकेंद्रस्य अपि कृतं लोकार्पणम् झांसी, 9 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमंत्री योगी आदित्यनाथः झाँसीनगरस्य दौरे आगत्य गुरुवासरे कन्वेन्शनकेन
सीएम टूल किट देते हुए


चेक देते मुख्यमंत्री


विश्वकर्मा श्रम सम्मान योजनायाः अंतर्गते लाभार्थिभ्यो दत्ता टूल किटसामग्री, नव निर्मित कन्वेंशनकेंद्रस्य अपि कृतं लोकार्पणम्

झांसी, 9 अक्टूबरमासः (हि.स.)।उत्तरप्रदेशराज्यस्य मुख्यमंत्री योगी आदित्यनाथः झाँसीनगरस्य दौरे आगत्य गुरुवासरे कन्वेन्शनकेन्द्रे “मुख्यमंत्रीयुवा-उद्यमीविकास-अभियान” नामकयोजनायाः लाभार्थिभ्यः योजनाचेकान् स्वयं प्रदत्तवान्। तेन सह “विश्वकर्मा-श्रम-सम्मान-योजना” अन्तर्गते उपकरणसामग्रीनाम वितरणं अपि कृतम्। अस्मिन् अवसरि मुख्यमन्त्रिणा लाभार्थिनः प्रेरिताः प्रोत्साहिताश्च अभवन्।

तस्मिन् एव अवसरि बीसकोटीरूप्यकाणां व्यये निर्मितस्य नवकन्वेन्शनकेन्द्रस्य उद्घाटनं मुख्यमन्त्रिणा कृतम्।

“मुख्यमंत्रीयुवा-उद्यमीविकास-अभियान” अन्तर्गते — हृदयेशपालनाम्ने आइसक्रीमनिर्माणार्थं, सन्तोषकुमाराय टेन्टहाउसव्यवसायाय, प्रतीकाय चित्रफ्रेमिंगं पूजनसामग्रीनिर्माणं च कृते, पवनगौहराय डीजेसाउंडसिस्टमाय, रीना सोन्यै सौन्दर्यगृहाय, रोहितकुशवाहाय पुष्पालङ्कारणव्यवसायाय — मुख्यमन्त्रिणा योगी आदित्यनाथेन स्वहस्तेन चेकाः प्रदत्ताः।

तदनन्तरं “विश्वकर्मा-श्रम-सम्मान-योजना” लाभार्थिभ्यः अपि उपकरणसामग्रीः (टूलकिट्) मुख्यमन्त्रिणा वितरिताः। अस्य योजनायाः अन्तर्गते खुश्बूसाहू, आशादेवी, ज्योति, मोनूश्रीवास, समितकुशवाह, सोनियाकुशवाहेभ्यः तेषां व्यवसायानुरूपाः उपकरणसामग्रीः प्रदत्ताः।

अस्मिन् अवसरे स्थानीयजनप्रतिनिधयः, प्रशासनिकाधिकारिणः, विभागीयाधिकारीणश्च उपस्थिताः

आसन्।

हिन्दुस्थान समाचार