Enter your Email Address to subscribe to our newsletters
वाराणसी, 09 अक्टूबरमासः (हि. स.)। भारतस्य शासनस्य पर्यटन-संस्कृतिमन्त्री गजेन्द्रः सिंहः शेखावतः वाराणस्यां श्रीकाशीविश्वनाथमन्दिरे दर्शनपूजनं कृत्वा उक्तवान् —
“वाराणस्यां भगवानः काशीविश्वनाथः यस्य दर्शनं कृतं, तेन अध्यात्मस्य शान्तेः च संस्कृत्याः दिव्यः साक्षात्कारः भवति। यदा यदा अत्र आगमिष्यामि, तदा तदा आत्मानं अधिकं शिवमयम् अनुभवामि। अन्तःकरणे ‘हर हर महादेव’ इत्यस्य अनन्ता अनुगुञ्जितः प्रतिध्वनति। अत्यन्तं हर्षो जायते, यतः अत्र जीवनदायिनी गङ्गामाता* च विकासगङ्गा च समं प्रवहतः दृश्येते।” इत्युक्त्वा मन्त्रिणा “ॐ नमः शिवाय” इति प्रणवमन्त्रेण स्तुतिः अपि कृताऽभवत्।
केंद्रीयमन्त्रिणः गजेन्द्रसिंहशेखावतस्य अस्मिन् दर्शनपूजनकार्यक्रमे वाराणसीदक्षिणी-विधानसभासदः डॉ. नीलकण्ठः तिवारी, सम्पूर्णानन्दसंस्कृतविश्वविद्यालयस्य कुलपति प्रोफेसरः बिहारीलालः च अन्ये च गण्यमान्यव्यक्तयः उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता