मध्यप्रदेशस्य राष्ट्रीयसंसदीयविद्यापीठे अद्य युवासंसद्प्रतियोगितायाः आयोजनम् अभवत्
भोपालम्, 09 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरस्थे पण्डितकुञ्जीलालदुबे–राष्ट्रीयसंसदीयविद्यापीठे अद्य गुरुवासरे प्रातः ११ वादनात् युवासंसद्–प्रतियोगितायाः आयोजनम् क्रियते। एषः कार्यक्रमः केन्द्रशासनस्य संसदीयकार्यमन्त्रालयेन तथा मध
युवा संसद प्रतियोगिता


भोपालम्, 09 अक्टूबरमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपालनगरस्थे पण्डितकुञ्जीलालदुबे–राष्ट्रीयसंसदीयविद्यापीठे अद्य गुरुवासरे प्रातः ११ वादनात् युवासंसद्–प्रतियोगितायाः आयोजनम् क्रियते। एषः कार्यक्रमः केन्द्रशासनस्य संसदीयकार्यमन्त्रालयेन तथा मध्यप्रदेशसंसदीयकार्यविभागेन संयुक्तरूपेण भोपालस्य भू–तल–विन्ध्याचलभवने, स्टेट्‌बैंकस्य समीपे स्थिते कार्यालये सम्पाद्यते।

जनसम्पर्काधिकारी मुकेशः मोदी इत्यनेन प्रदत्तसूचनानुसारम् — अस्मिन् कार्यक्रमे केन्द्रीयसंसदीयकार्यमन्त्रालयस्य अपरसचिवः, तथा मध्यप्रदेशविधानसभायाः अवकाशप्राप्तः अपरसचिवः श्री पुनीतः श्रीवास्तवः अतिथिरूपेण उपस्थितः भविष्यति।

प्रतिभागिभ्यः संसदीयकार्यप्रणाल्याः विषये बिन्दुबारं ज्ञानं प्रदास्यते। तेषां कृते युवासंसदमञ्चनस्य चलचित्र–अंशाः (क्लिपिङ्ग्) अपि प्रदर्श्यन्ते।

अस्मिन् प्रतियोगितायां विश्वविद्यालयेषु, महाविद्यालयेषु, विद्यालयेषु च पठन्तः प्रतिभागिनः सहभागं करिष्यन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता