Enter your Email Address to subscribe to our newsletters
नवदेहली, 09 अक्टूबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदिः गुरुवासरे अमेरिकादेशस्य राष्ट्रपतिः डोनाल्ड् ट्रम्प् इत्यस्य गाजा-शान्तियोजनायाः प्रथमपदे जातं सन्धिं स्वागतं कृत्वा उक्तवान् यत्, तेन क्षेत्रे स्थायिशान्तेः मार्गः प्रशस्तः भविष्यति।
एषः सन्धिः इस्राएल्-हमासयोः मध्ये द्विवर्षात् प्रवर्तमानस्य संघर्षस्य अनन्तरं जातः अस्ति।
प्रधानमन्त्री मोदिना सामाजिकमाध्यमे “एक्स्” इति प्लैट्फॉर्म् मध्ये प्रकाशिते पोस्ट् मध्ये उक्तम् —
“वयं राष्ट्रपतिनः ट्रम्प् इत्यस्य शान्तियोजनायाः प्रथमपदे जातं सन्धिं स्वागतयामः।
एतत् प्रधानमन्त्रिणः नेतन्याहू इत्यस्य दृढनेतृत्वस्य अपि प्रतीकम्।
आशां कुर्मः यत् बन्धकानां विमोचनं, गाजाप्रदेशीयजनानां प्रति मानवतासहाय्यवृद्धिश्च, तेषां प्रति सुखं दास्यतः, स्थायिशान्तेः च मार्गं प्रशस्यिष्यतः।”
उल्लेखनीयं यत् — राष्ट्रपतिः ट्रम्प् नामकः ट्रुथ् सामाजिक इति माध्यमे गाजा-शान्तिसन्ध्याः प्रथमपदस्य घोषणां कृत्वा लिखितवान् —
“अहं अतीव गर्वं अनुभवामि यत् इस्राएल्-हमास्-उभाभ्याम् अस्माकं शान्तियोजनायाः प्रथमपदे हस्ताक्षराः कृताः।
एतस्य अर्थः अस्ति यत् सर्वे बन्धकाः शीघ्रं विमोक्ष्यन्ते, इस्राएल् अपि दृढं, दीर्घं चिरस्थायिशान्तिं प्रति प्रथमं चरणं स्थापयन् सहमतिरेखायां स्वसैनिकान् प्रत्याहरिष्यति।
सर्वेषां पक्षाणां प्रति निष्पक्षं व्यवहारं भविष्यति।
एषः दिवसः अरब-मुस्लिम्-जगतः, इस्राएलस्य, सर्वेषां पार्श्वदेशानां च, अमेरिकायाश्च महान् दिवसः अस्ति।
कतर्-मिस्र-तुर्की-मध्यस्थानां च आभारं कुर्मः, ये अस्माभिः सह कार्यं कृत्वा एतां ऐतिहासिकाम् अभूतपूर्वां च घटनां सम्भवाम् अकरोत्।”
हिन्दुस्थान समाचार / अंशु गुप्ता