Enter your Email Address to subscribe to our newsletters
वाराणसी, 09 अक्टूबरमासः (हि. स.)।सारनाथस्थिते केंद्रीये उन्नततिब्बतीअध्ययनसंस्थाने कुलसचिवा डॉ॰ सुनीता चन्द्रा नाम्नी उक्तवती यत् केंद्रीयमन्त्री गजेन्द्रसिंहशेखावतस्य आगमनसंबन्धेन संस्थानस्य आधीनत्वे सञ्चाल्यमानस्य सोवा-रिग्प चिकित्सालयस्य नवनिर्माणकार्यं समापनावस्थां प्रति गच्छति।
अस्य चिकित्सालयस्य निरीक्षणार्थं केंद्रीयमन्त्री गजेन्द्रसिंहः आगत्य कतिपयान् दोषान् दृष्ट्वा तेषां विषये टिप्पणीं कृतवान्। शीघ्रमेव ते दोषाḥ निवार्यन्ते इति सा उक्तवती।
एषः सोवा-रिग्प चिकित्सालयः प्रधानमन्त्रिणा नरेन्द्रमोदिना हस्तेन उद्घाट्यते इति नियोजितम् अस्ति। अस्मिन् चिकित्सालये सर्वविधा चिकित्सा-सुविधा उपलभ्यते, कर्करोगादीनां गंभीररोगाणां च उपचारः अपि भविष्यति।
हिन्दुस्थान समाचार