यदा सत्तायाः बहिर्भवति समाजवादीपक्षाय स्मर्यन्ते अस्माकं सन्तः महापुरुषाः तथा पीडीए — मायावती।
लखनऊनगरम्, 09 अक्टूबरमासः (हि.स.)। बहुजन-समाज-पक्षस्य (बसपा) राष्ट्राध्यक्ष तथा उत्तरप्रदेशराज्यस्य पूर्वमुख्यमन्त्रिणी मायावती नामिका समाजवादी-पक्षं (सपा) प्रति तीव्रं प्रहारं कृत्वा उक्तवती—“यदा एते सत्ता-पदे वर्तन्ते, तदा अस्माकं सन्तान्, महापु
सम्बोधित करती बसपा प्रमुख मायावती


लखनऊनगरम्, 09 अक्टूबरमासः (हि.स.)। बहुजन-समाज-पक्षस्य (बसपा) राष्ट्राध्यक्ष तथा उत्तरप्रदेशराज्यस्य पूर्वमुख्यमन्त्रिणी मायावती नामिका समाजवादी-पक्षं (सपा) प्रति तीव्रं प्रहारं कृत्वा उक्तवती—“यदा एते सत्ता-पदे वर्तन्ते, तदा अस्माकं सन्तान्, महापुरुषान् च, तथा पीडीए (पिछड़ा-दलित-अल्पसंख्यक)-समुदायं न स्मरन्ति। सत्ता-पदात् बहिर्गता भवन्ति चेत्, तेषां नाम्ना गुणगानं कुर्वन्तः संगोष्ठ्यः, कार्यक्रमांश्च आयोजयन्ति।”

मायावत्याः उक्तं यत्, कांशीरामस्य पुण्यतिथौ लखनऊ-नगरे बहुसंख्यकार्यकर्तृ-सन्निधौ सा भाषणं दत्तवती।पूर्वं तु तया कांशीरामस्य चरणयोः पुष्पाणि अर्प्य नमस्कारः कृतः।

सापि अवदत्—“कांशीरामस्य पुण्यतिथौ संगोष्ठीमपि आयोजयितुं उद्यताः एते समाजवादिनः। एतेषां द्विविधचरित्रात् जनाः सचेताः भवितुमर्हन्ति।यदा एते सत्ता-पदे वर्तन्ते तदा न कांशीरामः स्मर्यते, न च डा० भीमराव-अम्बेडकरः।यदा तेषां सर्वकारः पतति, तदा एव एते पीडीए-समुदायं स्मरन्ति, अस्माकं सन्त-गुरूणां विषये संगोष्ठीः कुर्वन्ति।”

मायावत्याः वचनम्—“समाजवादी-पक्षेन न केवलं कांशीराम-जीवनकाले एव अस्माकं पक्षेन सह द्रोहः कृतः, अपितु तेन अस्य पक्षस्य आन्दोलनं उत्तरप्रदेशे दुर्बलं कर्तुं निरन्तरं प्रयत्नाः अपि कृताः।बसपा-सर्वकारकाले कासगंज-प्रदेशाय जनपद-मुख्यालयस्य पदं दत्त्वा ‘कांशीरामनगर’ इत्याख्यं नूतनं जनपदं निर्मितं आसीत्।परं सपा-सर्वकारस्य आगमे तद् नाम जातिवाद-युक्त-द्वेषात् परिवर्तितम्।एवमेव कांशीरामस्य नाम्ना निर्मितानि विश्वविद्यालयाः, महाविद्यालयाः, चिकित्सालयाश्चापि सपा-शासनकाले परिवर्तितानि।एतत् तेषां दलित-विरोधि-चेष्टाम्, चरित्रं च प्रकाशयति।”

सा अपि अवदत्—“समय-समये संकीर्ण-राजनीतिस्वार्थेन सपा-कांग्रेसयोः कांशीराम-स्मरणं केवलं प्रदर्शनम् एव, न तु सत्य-श्रद्धा।एतादृशानां जातिवादी-संकीर्णमति-पक्षाणां प्रति जनाः सावधानाः स्यु:।”

अन्ते मायावती आभारः प्रकट्य उक्तम्—“भाजप-सर्वकाराय अहं कृतज्ञा अस्मि, यतः महापुरुषाणां स्मारकानां परिपालनार्थं व्ययः कृतः, पदयात्रा-स्थलं च सर्वकारेण मरीक्षितं कृतम्।अस्माकं पक्षेन तस्मै आभारः।

अद्य अस्य पदयात्रास्थले जनसामान्यस्य अपारः समूहः आगतः— एतद् दृष्ट्वा अहं हर्षिता।पंजाब, हरियाणा, महाराष्ट्र, उत्तराखण्डाद्याः राज्येभ्यः अपि समर्थकाः आगताः।एते दिहाडी-श्रमिकाः न सन्ति, अपितु स्वेच्छया आगताः।

बसपा-पक्षस्य पुनः सत्ता-प्राप्तिः एव अनुसूचितजाति, अनुसूचितजनजाति, पिछड़ा-अल्प-आय वर्गाणां कल्याणस्य एकः मार्गः इति।”

हिन्दुस्थान समाचार / अंशु गुप्ता