Enter your Email Address to subscribe to our newsletters

अयोध्या, 1 नवम्बरमासः (हि.स.)।अयोध्यायां पंचकोसीपरिक्रमा शनिवासरे प्रातःकाले चतुर्भिर्घटीभिः चतुर्भिर्मिनिटैः आरब्धा, या रविवासरस्य प्रातः द्वाभ्यां घटीभ्यां सप्तपञ्चाशन्मिनिटैः पर्यन्तं प्रवर्तिष्यते। देवोत्थानीएकादश्याः पावनावसरे एषा परिक्रमा अयोध्याधामपरिधौ प्रायः पञ्चदशकिलोमीटरदीर्घा पादयात्रा अस्ति, यस्मिन् भक्ताः “राम–राम” इति उच्चरन्तः श्रद्धाभावेन परिक्रमार्थं गच्छन्ति।
अस्यां पंचकोसीपरिक्रमार्यां रामनगरी अयोध्या सह प्रदेशस्य विविधजिल्यानां भक्ताः प्रमुखतया सहभागी भवन्ति। बहवः सन्तमहन्तः अपि आस्थामार्गस्य शोभां वर्धयन्ति।
अद्य तु मोंथा चक्रवातस्य प्रभावेन अयोध्यायां गतद्विदिनात् अनवरतवृष्टिः भवति, यत् प्रशासनस्य कृते कठिनता जाताऽपि भक्तानां उत्साहः न न्यूनीकृतः।
पूर्वं चतुर्दशकोसीपरिक्रमायाम् अपि वर्षावृष्ट्यां प्रशासनानुसारं दशलक्षाधिकाः श्रद्धालवः सहभागिनः आसन्। अधुना पंचकोसीपरिक्रमायाम् अपि तादृशः उल्लासः दृश्यते।
आयुक्तः राजेशकुमारः, पुलिसमहानिरीक्षकः प्रवीणकुमारः, जिलाधिकारी निखिलटीकाराम फुंडे, वरिष्ठपुलिसअधीक्षकः गौरवग्रोवरः च परिक्रमार्थमार्गस्य निरीक्षणं कृत्वा सुरक्षा, स्वच्छता, यातायातव्यवस्था च विषये अधिकारिणः प्रति कठोरनिर्देशान् दत्तवन्तः।
हिन्दुस्थान समाचार