Enter your Email Address to subscribe to our newsletters

चेन्नई, 10 नवंबरमासः (हि.स.)तमिळनाडुराज्यस्य मुख्यमन्त्री एम्.के.स्टालिन् नामकः केन्द्रीयविदेशमन्त्रिणं एस्.जयशङ्करं प्रति पत्रं लिखित्वा निवेदनं कृतवान् यत् श्रीलङ्कानौसेनायाः कारागारे बन्दितान् सर्वान् मत्स्यग्राहकान् मुक्तिं प्रापयितुं सः हस्तक्षेपं करोतु। तेषां मत्स्यग्रहणनौकानां प्रत्यावर्तनार्थं अपि प्रयत्नं क्रियतामिति निवेदनं कृतवान्।
अस्मिन् विषये मुख्यमन्त्रिणा स्वपत्रे लिखितं यत् भारतीयमत्स्यग्राहकानां तेषां मत्स्यग्रहणनौकानां च श्रीलङ्कानौसेनायाः सैनिकैः ग्रहणस्य घटनाः सततं प्रवर्तमानाः सन्ति। अस्यैव मासस्य नवमदिने नवम्बरमासस्य रात्रौ मयिलादुथुरैनामकजिलायाः चतुर्दश मत्स्यग्राहकान् तेषां मोटरनौकाभिः सहितान् श्रीलङ्कानौसेनायाः सैनिकाः गृहीत्वा कारागारे स्थापयामासुः। एतेषां ग्रहणं अत्यन्तं चिन्ताजनकं इति मुख्यमन्त्रिणा लिखितम्।
अस्मिन्नेव पत्रे तेन उल्लिखितं यत् “द्विसहस्रचतुर्विंशतितमे वर्षे गृहीताः अनेके मत्स्यग्राहकाः अद्यापि तत्रैव कारागारे सन्ति। तमिळनाडुराज्यस्य एकशताष्टाविंशतिः मत्स्यग्राहकाः श्रीलङ्कायाः कारागृहेषु निरुद्धाः सन्ति। तेषां सह तमिळनाडुराज्यस्य मत्स्यग्राहकानां द्विशताष्टचत्वारिंशतिः मत्स्यग्रहणनौकाः अपि श्रीलङ्कानौसेनायाः अधिकाराधीनाः सन्ति।”
मुख्यमन्त्रिणा लिखितं यत् तमिळनाडुमत्स्यग्राहकानां निरन्तरग्रहणं तेषां नौकानां च जप्तिः तटीयसमुदायान् अतिदुःखितान् कृतवती अस्ति। मत्स्यग्राहकाणां जीविका तत्रैव निर्भरति। विदेशमन्त्रिणं प्रति लिखिते पत्रे सः निवेदनं कृतवान् यत् दीर्घकालात् प्रवर्तमानं एतत् समस्यारूपं विषयं निवारयितुं संयुक्तकार्यसमूहः स्थाप्यताम्, यः उभयोः पक्षयोः ग्राह्यं स्थायीसमाधानं अन्विष्येत्।
मुख्यमन्त्री स्टालिनः अन्ते आग्रहं कृतवान् यत् श्रीलङ्कानौसेनायाः कारागारात् सर्वे मत्स्यग्राहकाः शीघ्रं मुक्ताः भवेयुः, तेषां मत्स्यग्रहणनौकाः च पुनः प्राप्ताः भवेयुः, इत्यर्थं सर्वाणि आवश्यकानि कूटनीतिकपदानि शीघ्रं स्वीक्रियन्ताम्।
---------------
हिन्दुस्थान समाचार