Enter your Email Address to subscribe to our newsletters

– नवोन्मेषनीतिः तथा न्यायिकनगरपरियोजना अपि अनुमोदिते।
गुवाहाटी, 10 दिनाङ्कः नवम्बरमासः(हि.स)।असमराज्यस्य मन्त्रिपरिषद् बहुपत्नीविवाहनिषेधविधेयकं २०२५इति अनुमोदितवान्। एषः निर्णयः राज्ये बहुपत्नीविवाहप्रथां निरोद्धुं महत्त्वपूर्णः पादः इति मन्यते। अयं निर्णयः मुख्यमन्त्रिणा डॉ॰ हिमन्तबिस्वसरमा इत्यस्य अध्यक्षतायां रविवासरे सायं लोकसेवाभवने सम्पन्नमन्त्रिपरिषदः सभायां स्वीकृतः।
मन्त्रिपरिषदा अस्मिन्नेव सत्रे State of the Art Judicial Township इत्यस्य प्रथमारम्भचरणस्य निर्माणाय प्रशासनिकम् अनुमोदनं दत्तम्। परियोजनायाः अनुमानितव्ययः - ४७८.७८ कोटि रूप्यकाणि भविष्यन्ति। अस्य अन्तर्गतं आधुनिकन्यायिकसमुच्चयस्य निर्माणं भविष्यति, यस्य सर्वाणि भवनानि सेतुभिः परस्परं संयोजितानि भविष्यन्ति। एषः समुच्चयः क्षेत्रस्य प्रमुखः न्यायिककेन्द्रः भविष्यति।
अस्मिन् प्रकल्पे मुख्यांशाः भवन्ति – उच्चन्यायालयभवनं (G+4), सभाभवनं (G+6), कार्यालयभवनं (G+6) च।
मन्त्रिपरिषदा असम ' स्टार्टअप् एवं नवोन्मेषनीतिः २०२५–३० ' इत्यस्यापि अनुमोदनं कृतम्। अस्याः नीत्या: प्रयोजनं राज्यं नवोन्मेषस्य च उद्यमस्य च क्षेत्रे देशस्य अग्रगण्येषु केन्द्रेषु स्थापयितुम् अस्ति। अस्य नीत्याः अन्तर्गतं पञ्चवर्षपर्यन्तं ३९७ कोटिरूप्यकाणां व्ययः भविष्यति। अत्र विविधानि आर्थिकसहायतानियमानि अपि निर्दिष्टानि सन्ति।
अस्मिन्नेव सत्रे मन्त्रिपरिषदा असम बहुपत्नीविवाहनिषेधविधेयकं २०२५ इत्यस्य अनुमोदनं दत्तम्, यः बहुपत्नीविवाहप्रथां निवारयितुं तां च अपराधरूपेण निर्दिष्टुं च उद्दिश्यते (षष्ठानुशङ्गायाः प्रदेशान् वर्जयित्वा)। एषः विधेयकः तं नरं वा नारीं वा विवाहं कर्तुं निषेधयति यस्य जीवता पत्नी वा पतिः अस्ति, अथवा यः विवाहः विधिसम्मतेन विच्छेदितः नास्ति। अस्मिन् विधेयके बहुपत्नीविवाहपीडितानां स्त्रीणां प्रति क्षतिपूर्तेः प्रावधानमपि अस्ति, यत् ताः न्यायं सामाजिकरक्षणं च प्राप्तुं शक्नुयुः।
मन्त्रिपरिषद् (CAS) अन्तर्गतं असमराज्यस्य स्वायत्त-प्रान्तीयीकृत-सर्वकारेण च महाविद्यालयानां सहायकप्राध्यापकानां पुस्तकालयाध्यक्षानां च पदोन्नतेः प्रभावतिथिं निश्चितम्।अन्यस्मिन् निर्णयेन मन्त्रिपरिषदा चु-का-फा विश्वविद्यालयः, असम इत्यस्य स्थापनार्थम् अनुमोदनं दत्तम्। एषः विश्वविद्यालयः उच्चशिक्षायाः प्रसाराय अविभक्तशिवसागरक्षेत्रे, विशेषत: चराइदेवजनपदे शिक्षण–आवासीयसंबद्ध-विश्वविद्यालयरूपेण स्थापितः भविष्यति।
हिन्दुस्थान समाचार / Dheeraj Maithani