प्रयागराज पुलिसदलं भूमिपूजनं कृत्वा माघ मेलापकस्य कृतवच्छुभारम्भः
प्रयागराजः, 10 नवम्बरमासः (हि.स.)।विश्वप्रसिद्धे प्रयागराजे प्रति वर्षं आयोज्यमाने माघमेले २०२५–२६ तमस्य सुचारुसम्पादनाय उत्तरप्रदेशपुलिसविभागेन सोमवासरे संगमतटे वैदिकमन्त्रोच्चारैः सह भूमिपूजनं कृतम्। भूमिपूजनं पुलिसविभागस्य पुरोहिताः आचार्यजयराम
संगम तट पर वैदिक मंत्रों के साथ किया भूमिपूजन


पुलिस विभाग के शिविर भूमि पूजन कार्यक्रम का छाया चित्र


प्रयागराजः, 10 नवम्बरमासः (हि.स.)।विश्वप्रसिद्धे प्रयागराजे प्रति वर्षं आयोज्यमाने माघमेले २०२५–२६ तमस्य सुचारुसम्पादनाय उत्तरप्रदेशपुलिसविभागेन सोमवासरे संगमतटे वैदिकमन्त्रोच्चारैः सह भूमिपूजनं कृतम्।

भूमिपूजनं पुलिसविभागस्य पुरोहिताः आचार्यजयराममिश्रः, आचार्यराजेन्द्रमिश्रः, रत्नमिश्रः, गणेशमिश्रः, सुनीलमिश्रश्च संगमतटे पुलिसविभागस्य शिविरस्थापनात् पूर्वं पतितपावनीमातृगङ्गायाः तटे पारम्परिकैः वैदिकैश्च मन्त्रैः विधिविधानपूर्वकं सम्पन्नं कृतवन्तः।

भूमिपूजनकार्यक्रमे पूज्यः सन्तः निरञ्जनीअखाडस्य महामण्डलेश्वरः च महाहनुमन्मन्दिरस्य महन्तः श्रीबलबीरगिरिः, पुलिसायुक्तः प्रयागराजस्य जोगेन्द्रकुमारसिंहः, पुलिसउपायुक्तः यातायातविभागस्य च माघमेले नोडलाधिकारी नीरजकुमारपाण्डेयः, पुलिसउपायुक्तः गङ्गानगरस्य कुलदीपसिंहगुनावत्, पुलिसउपायुक्तः यमुनानगरस्य विवेकचन्द्रयादवः, अपरपुलिसउपायुक्तः नगरस्य सहायकनोडलाधिकारी च माघमेले विजयआनन्दः, अपरपुलिसायुक्तः कानूनव्यवस्थायाः डॉ. अजयपालशर्मा, अपरपुलिसआयुक्तः मुख्यालयस्य एन्. कोलांची इत्येते सर्वे पुलिसप्रशासनिकाधिकारिणः च सहभागिनः आसन्।

---------------

हिन्दुस्थान समाचार