रायपुरम् — छत्तीसगढ़राज्यस्य मुख्यमन्त्री साय अद्य आरभ्य द्विदिनात्मकं गुजरातप्रवासं करिष्यति
रायपुरम् 10 नवंबरमासः (हि.स.)। छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे द्विदिनात्मकगुजरातप्रवासाय प्रयास्यति। अयं प्रवासः राज्ये निवेशस्य, कौशलविकासस्य, सुशासनस्य च आधुनिकमॉडेल्‌स्वीकरणदिशायां महत्त्वपूर्णः उपक्रमः इति मन्यते। मुख्यम
मुख्यमंत्री विष्णुदेव साय


रायपुरम् 10 नवंबरमासः (हि.स.)। छत्तीसगढ़स्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे द्विदिनात्मकगुजरातप्रवासाय प्रयास्यति। अयं प्रवासः राज्ये निवेशस्य, कौशलविकासस्य, सुशासनस्य च आधुनिकमॉडेल्‌स्वीकरणदिशायां महत्त्वपूर्णः उपक्रमः इति मन्यते।

मुख्यमन्त्रिणः कार्यालयेन प्रदत्तसूचनानुसारं, अद्य गांधीनगरं प्राप्य मुख्यमन्त्री विष्णुदेवसायः गुजरातस्य मुख्यमन्त्रिणा सह साक्षात्कारं करिष्यन्ति। तस्मिन् सन्दर्भे सीएमडैशबोर्ड्‌, जनशिकायतप्रणाली, “इन्वेस्ट्‌ गुजरात्” इत्यस्य निवेशनीतिषु च प्रस्तुतीकरणं भविष्यति। ततः मुख्यमन्त्री गांधीनगरस्थितं “नामटेक् ग्लोबल्‌ स्किल्‌ कॉलेज्‌” इत्यस्य निरीक्षणं करिष्यन्ति, यत्र ते अत्याधुनिककौशलविकासप्रशिक्षणमॉडेलस्य अवलोकनं करिष्यति। अनन्तरं ते साबरमतीरिवरफ्रण्ट्‌प्रदेशस्य दौरणं कृत्वा तत्रैव भोजनं करिष्यन्ति।

तदनन्तरम् अहमदाबादात्‌ हेलिकॉप्टरमार्गेण केवडियायाः गमनं कृत्वा मुख्यमन्त्री “स्टैच्यू ऑफ यूनिटी” इत्यस्य दर्शनं करिष्यन्ति, तथा भारतपर्व–२०२५ च “एकताप्रकाशपर्वे” च सहभागी भविष्यन्ति। मुख्यमन्त्रिणः रात्रिविश्रामः केवडियासर्किट्‌हाउस्‌ मध्ये नियोजितः अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता