Enter your Email Address to subscribe to our newsletters

रायपुरम्, 10 नवंबरमासः (हि.स.)। छत्तीसगढराज्यस्य मुख्यमन्त्री विष्णुदेवसायः अद्य सोमवासरे स्वामिविवेकानन्दविमानस्थानपरिसरे मानाशिबिरे स्थितस्य राज्य–विमानागारस्य नियमित–परिचालनस्य शुभारम्भं कृतवान्। शुभारम्भानन्तरं मुख्यमन्त्री साय स्वीयगुजरात–भ्रमणाय तस्मादेव विमानागारात् प्रस्थितः।
राज्ये विशेष–विमानेन वीवीआईपी–आगमन–प्रस्थानव्यवस्थाः अस्य आरम्भेन अधिकं सुगमाः सुव्यवस्थिताश्च भविष्यन्ति। अस्य उपक्रमस्य फलरूपेण विमानस्थानस्य यात्रि–टर्मिनले वीवीआईपी–गमनागमनकाले साधारण–यात्रिणां असुविधा अपि निवारिता भविष्यति।
उल्लेखनीयं यत् एषः राज्य–विमानागारः वर्षे २०१२ तमे लोकनिर्माणविभागेन (पीडब्ल्यूडी) प्रायः षट्सप्तति–लक्षरूप्यकव्ययेन निर्मितः। तथापि, परिचालनार्थं नागरिक–उड्डयनमहानिदेशालयस्य (डीजीसीए) विमानसुरक्षाब्यूरोस्य (बीसीएएस) च अनुमतयः केवलं ३१ अक्टूबर २०२५ दिने एव प्राप्ताः। अनुमतयः प्राप्ताः इत्यनन्तरं तदानीं नियमित–परिचालनम् आरब्धम्।
नव–निर्मितः राज्य–विमानागारः ‘ई’ इति टैक्सी–वे नामकेन मार्गेण विमानस्थान–धावनपथेन संयोजितः अस्ति, येन वीवीआईपी–गमनागमनम् अधिकं सुगमतया सिध्यति तथा विमानस्थानपरिसरे पृथग्व्यवस्थाया आवश्यकतापि न भवति। राज्य–शासनस्य स्वाम्ये स्थितानि विमानानि हेलिकॉप्टराणि च अस्मिन् नूतने राज्यविमानागारे एव धार्य–पाल्यन्ते। अनेन राज्यविमानस्थानस्थे किरायाय उपलभ्यमानस्य विमानागारस्य प्रति निर्भरता अपि समाप्ता जाता।
अस्मिन् अवसरे विधायकः मोतीलालसाहू, मानाशिबिरनगर–पञ्चायताध्यक्षः संजययादवः, मुख्यमन्त्रिणः सचिवः राहुल–भगतः, उप–सचिवः सूरजसाहू इत्यादयः जनप्रतिनिधयः वरिष्ठ–अधिकारीणश्च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता