Enter your Email Address to subscribe to our newsletters

बलरामपुरम् 10 नवंबरमासः (हि.स.)। मुख्यमंत्री योगी आदित्यनाथः द्विदिनीयभ्रमणार्थं अद्य सोमवासरे बलरामपुरजनपदे स्थितं प्रख्यातं देवीपाटनमन्दिरं प्राप्स्यन्ति। ते ब्रह्मलीनमहन्तमहेन्द्रनाथयोगिनः पञ्चविंशतितम्यां पुण्यतिथौ आयोज्यमाने कार्यक्रमे सम्मिल्य श्रद्धाञ्जलिं प्रदास्यन्ति। मुख्यमंत्री मन्दिरे रात्रौ विश्रामं अपि करिष्यन्ति।
प्राप्तसूचनानुसारम् अद्य सायं प्रायः पञ्चविंशत्यधिकपञ्चवादने (५:३५ वादने) मुख्यमंत्री देवीपाटनधामं प्राप्स्यन्ति। मन्दिरे प्रवर्तमानं श्रीमद्भागवतकथाकार्यक्रमं सहभागी भविष्यन्ति तथा ब्रह्मलीनमहन्तं प्रति श्रद्धाञ्जलिं अर्पयिष्यन्ति। मुख्यमंत्री योगी रात्रिविश्रान्तेः अनन्तरं मंगलवासरे प्रातः माता पाटेश्वरीदेव्याः दर्शनं पूजनं च कृत्वा मन्दिरप्रांगणात् प्रस्थानं करिष्यन्ति। मुख्यमंत्रिणः आगमनं प्रति प्रशासनं सतर्कावस्थायाम् अस्ति।
महन्तमहेंद्रनाथयोगिनः पुण्यतिथेः अवसरं प्रति देवीपाटनमन्दिरे षष्ठे नवम्बरमासे आरब्धं श्रीमद्भागवतकथायाः आयोजनं प्रवर्तमानम् अस्ति। अद्य सन्तसम्मेलनं श्रद्धाञ्जलिसभा च प्रस्ताविता, यस्मिन् मुख्यमंत्री योगी अपि सन्तान् सम्बोधयिष्यन्ति। देवीपाटनमन्दिरे प्रतिवर्षं महन्तमहेंद्रनाथयोगिनः पुण्यतिथौ धार्मिकानि आयोजनानि, सन्तसम्मेलनानि, श्रद्धाञ्जलिसभाः च विधीयन्ते। मुख्यमंत्री योगी आदित्यनाथः एतेषु आयोजनेषु नित्यं सम्मिल्यन्ते। मुख्यमंत्रिणः आगमनस्य संदर्भेण जनपदप्रशासनं मन्दिरप्रशासनं च सुरक्षा-व्यवस्थासम्बन्धिन्यः सर्वाः व्यापकाः तयारीः कृतवन्तौ। मन्दिराधिकारिणः अवदन् यत् मुख्यमंत्रिणः स्वागतार्थं सर्वाः आवश्यकाः व्यवस्थाः पूर्णाः कृताः सन्ति।
हिन्दुस्थान समाचार / Dheeraj Maithani