Enter your Email Address to subscribe to our newsletters

नवदेहली, १० नवम्बरमासः (हि.स.)। केंद्रीयगृह-सहकारितामन्त्री अमितशाहः सोमवारे उक्तवान् यत् — देशस्य शहरी-सहकारी-वित्तकोषाः अधुना आकाङ्क्षी-युवानां, लघु-व्यापारीणां, निम्नवर्गीय-जनानां च सशक्तीकरणार्थं अग्रणीभूमिकां निर्वहतु। सः अवदत् यत् नैफकब् तथा अन्ये शहरी-सहकारी-संस्थाः ‘नैतिक-दिग्दर्शनं’ निर्गच्छेयुः, यस्य आधारेण प्रत्येकः वित्तकोषः स्वं वित्तीय-संरचनां पुनः परिकल्पयितुं शक्नोति।
अमितशाहः अत्र राष्ट्रीय-शहरी-सहकारी-वित्तकोषः-ऋणसमिति-महासंघस्य (नैफ्कब्) तथा सहकारितामन्त्रालयस्य संयुक्त-आयोजनेन सम्पन्ने अन्ताराष्ट्रीय-सम्मेलने ‘को-ऑप्-कुम्भः २०२५’ इत्यस्मिन् सभायां भाषणं दत्तवान्।
सः अवदत् यत् — शहरी-सहकारी-वित्तकोषः ऋणसमितयश्च अतीतानि वर्षाणि नूतन-उत्साहेन दृढ-संकल्पेन च अग्रे अभवन्। सः अमूल् तथा इफ्को इत्येतौ संस्थानौ अन्ताराष्ट्रीय-सहकारीसंघेन विश्वक्रमाङ्के क्रमशः प्रथम-द्वितीयस्थानयोः प्राप्तत्वेन अभिनन्दितवन्तः। शाहः उक्तवान् — “एतत् दर्शयति यत् सहकारिताया अवधारणा अद्यापि तावदेव साङ्गत्ययुक्ता, प्रासङ्गिका च अस्ति।” अमूल् संस्थानं देशे श्वेत-क्रान्तिं प्रवर्तितवन्तम् अस्ति, अद्य तु प्रतिदिनं त्रिकोटि-लीटर-दुग्धस्य संकलनं करोति।
इफ्फ्को इत्यनेन ९३ लक्षटनं यूरिया-डीएपी-उत्पादनं कृत्वा हरितक्रान्तिं प्रति महत्त्वपूर्णं योगदानं दत्तम्, यस्य नैनो-उत्पादाः अद्य ४०-तमेभ्यः अधिकेभ्यः देशेभ्यः निर्यातिताः सन्ति
ते उक्तवन्तः — “अद्य ‘सहकार्-डिजि-पे’ तथा ‘सहकार्-डिजि-लोन’ इत्येतौ अनुप्रयोगौ (ऐप्) उद्घाटितौ, यौ देशस्य लघुतम-सहकारी-संस्थाः अपि अङ्कीय-भुगतान-व्यवस्थायाः सह सम्बद्धयिष्यतः।”
शाहः अवदत् — “भारतदेशे अङ्कीय-भुगतानस्य नूतन-युगः आरब्धः अस्ति, अतः सहकारी-संस्थाः अपि एतेन संयोज्य साधारण-जनानां प्रति वित्तीय-सुविधाः प्रदातव्या इति।”
केंद्रीयमन्त्रिणा अपि उक्तं यत् — सर्वकारेण प्राथमिक-कृषि-ऋण-समित्यः इत्येभ्यः कृते आदर्श-उपनियमाः निर्मिताः, ये सर्वैः राज्यैः स्वीकृताः। एतेन निष्क्रियाः समितयः पुनर्जीवयितुं सुकरं भविष्यति।
सः उक्तवान् — “युवा-पीढिं सहकारितायाः क्षेत्रे संयोजयितुं त्रिभुवन-सहकारी-विश्वविद्यालयः स्थापितः, यः सहकारी-क्षेत्रार्थं व्यवसायिकान् प्रशिक्षयिष्यति।” अमितशाहः लक्ष्यम् उद्घोषयत् — “द्विलक्षाधिक-जनसंख्या-युक्ते प्रत्येक-नगरे पंचवर्षेभ्यः अन्ते एकः शहरी-सहकारी-वित्तकोषः स्थापनीयः।” सः अवदत् — “शहरी-सहकारी-वित्तकोषानां एन्.पी.ए. अनुपातः द्विवर्षेषु २.८ प्रतिशतात् न्यूनीकृत्य केवलं ०.६ प्रतिशतं जातः, यत् अस्य क्षेत्रस्य महत्त्वपूर्णा उपलब्धिः अस्ति।”
अस्मिन् कार्यक्रमे केंद्रीय-सहकारिता-राज्यमन्त्री कृष्णपाल-गुर्जरः, कर्नाटक-राज्यस्य मन्त्री डॉ. एच्.के. पाटिल्, नैफ्कब्-अध्यक्षः लक्ष्मी-दासः, सहकारिता-सचिवः डॉ. आशीष-कुमार-भूटानी च अन्ये बहवः गण्यमानाः अतिथयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता