Enter your Email Address to subscribe to our newsletters

प्रसिद्धो बॉलीवुडचलचित्रनायकः धर्मेन्द्रः इत्याख्यः अधुना मुम्बै नगरस्थे ब्रीच् क्यान्डी चिकित्सालये उपचारार्थं संस्थापितः अस्ति। वैद्यगणः तस्य स्वास्थ्यस्थितेः निरन्तरं निरीक्षणं कुर्वन्ति। अस्य स्वास्थ्ये शनैः शनैः सुधारः दृष्टः अस्ति। सोमवासरे कतिचनवार्तासु उक्तं यत् धर्मेन्द्रः वायुवेगयन्त्रे संस्थापितः इति, किन्तु तस्य दलः ताः वार्ताः मिथ्याः इति स्पष्टीकृतवान्।
दलस्य विज्ञप्त्या अनुसारं धर्मेन्द्रस्य स्वास्थ्यस्थितिः स्थिरा अस्ति, सः वैद्यपर्यवेक्षणे एव वर्तते। तैः उक्तं — “धर्मेन्द्रस्य स्वास्थ्ये सुधारः प्रवर्तते, चिन्ता करणीयं नास्ति। याः वार्ताः प्रसारिताः यत् सः वायुवेगयन्त्रे स्थाप्यते इति, ताः असत्याः। दलः अपि जनान् प्रति आह्वानं कृतवान् यत् ते अपवादेषु न विश्वासं कुर्वन्तु तथा तस्य शीघ्रं स्वास्थ्यलाभाय प्रार्थनां कुर्वन्तु।
धर्मेन्द्रस्य भक्तजनाः सामाजिकमाध्यमेषु निरन्तरं शुभाशंसाः प्रेषयन्ति। केचन तस्य प्राचीनचित्राणि चलचित्रखण्डांश्च साझीकृत्य लिखन्ति — “हीमैन् ऑफ् बॉलीवुड् शीघ्रं स्वस्थो भूत्वा गृहं प्रतिनिवर्तताम्।”
कार्यपरिप्रेक्ष्ये धर्मेन्द्रः शीघ्रमेव राष्ट्रीयपुरस्कारविजेतृनिर्देशकस्य श्रीरामराघवनस्य ‘इक्कीस्’ इत्याख्यायां चलचित्रे दृश्यः भविष्यति। एषा चलचित्रकथा परमवीरचक्रविजेतुः द्वितीयलेफ्टिनेन्ट् अरुणखेत्रपालस्य जीवनाधारितम् अस्ति। अस्मिन् चलचित्रे अगस्त्यनन्दः, जयदीपअहलावतः, सिमरभाटिया च प्रमुखभूमिकासु दृश्यन्ते।
अधुना सर्वे तस्य अनुयायिनः चलचित्रसहकार्यकर्तारश्च धर्मेन्द्रस्य शीघ्रं स्वास्थ्यलाभं प्रत्याशन्ते।
---------------
हिन्दुस्थान समाचार