जम्मू-कश्मीरशासने उपनिर्वाचनानां निमित्तम् एकादशे नवम्बरमासदिनाङ्के सवेतनावकाशः घोषितः
जम्मू, 10 नवंबरमासः (हि.स.)। जम्मू–कश्मीरशासनम् उद्घोषितवद् यत् एकादशे नवम्बरमासस्य (मङ्गलवासरे) विधानसभानिर्वाचनक्षेत्रे २७ बडगाम तथा ७७ नगरोटा इत्यस्य उपनिर्वाचनानां सन्दर्भे सवेतनावकाशः भविष्यति इति।एषः निर्णयः जनप्रतिनिधित्व अधिनियमस्य 1951 तमे
जम्मू-कश्मीरशासने उपनिर्वाचनानां निमित्तम् एकादशे नवम्बरमासदिनाङ्के सवेतनावकाशः घोषितः


जम्मू, 10 नवंबरमासः (हि.स.)। जम्मू–कश्मीरशासनम् उद्घोषितवद् यत् एकादशे नवम्बरमासस्य (मङ्गलवासरे) विधानसभानिर्वाचनक्षेत्रे २७ बडगाम तथा ७७ नगरोटा इत्यस्य उपनिर्वाचनानां सन्दर्भे सवेतनावकाशः भविष्यति इति।एषः निर्णयः जनप्रतिनिधित्व अधिनियमस्य 1951 तमे वर्षे धारा 135(ब) अन्तर्गतः सामान्यप्रशासनविभागेन 16 अक्टूबर 2025 दिनाङ्के निर्गतः शासनादेशः संख्या 1355-जेके (जीएडी) 2025 अनुसारं कृतः अस्ति। आदेशे निर्दिष्टं यत् मतदानदिने व्यापार, वाणिज्य, औद्योगिक–उद्यम, अन्यानि प्रतिष्ठानानि वा इत्येषु कार्यरताः सर्वे अपि तेषां निर्वाचनक्षेत्रेषु मतदानाधिकारिणः जनाः सवेतनावकाशस्य लाभं प्राप्स्यन्ति। अवकाशकारणेन वेतनपरिमाणे न कश्चन ह्रासः भविष्यति।

आदेशे पुनः निर्दिष्टं यत् अस्य प्रावधानस्य उल्लङ्घनं कुर्वतः कस्यचित् नियोजकस्य विरुद्धं पञ्चशत (₹500) रूप्यकपर्यन्तं दण्डः आरोपयितुं शक्यते। तथापि, एषः नियमः तेषां मतदातॄणां प्रति न प्रवर्तते, यत्र तेषां अनुपस्थित्या तेषां नियोजने विनाशः वा महान् हानिः सम्भवति। शासनम् अपि स्पष्टं कृतवद् यत् एषः सवेतनावकाशः परक्राम्य–लिखित–अधिनियमस्य 1881 तमे वर्षे धारा 25 अन्तर्गतः अपि ग्राह्यः भविष्यति, येन अधिसूचित–निर्वाचनक्षेत्रेषु आगतानि सर्वाणि शासकीय–निजी कार्यालयानि मतदानदिने न कार्यं करिष्यति इति सुनिश्चितं भवेत्।

हिन्दुस्थान समाचार / अंशु गुप्ता