Enter your Email Address to subscribe to our newsletters

उज्जैनम्, 10 नवंबरमासः (हि.स.)।मध्यप्रदेशराज्यस्य उज्जयिनीनगरे स्थितात् महाकालेश्वरमन्दिरात् भगवानमहाकालेश्वरस्य कार्तिकमार्गशीर्षयोः मासयोः तृतीयायात्रा अद्य सोमवासरसायंकाले चतुर्वादने निर्गमिष्यति। सवार्याः निर्गमनात् पूर्वं भगवानश्रीमहाकालेश्वरस्य श्रीचन्द्रमौलीश्वरस्वरूपस्य पूजनं च अर्चनं च विधिवत् करिष्यते। पूजनानन्तरं भगवानश्रीचन्द्रमौलीश्वरः रजतपालक्यां विराजमानः सन् नगरभ्रमणं कृत्वा प्रजाजनानां कुशलं ज्ञास्यति।
मुखद्वारे सशस्त्रपुलिसबलस्य सैनिकैः भगवतः प्रति सलामी, यत् गॉड ऑफ ऑनर इति कथ्यते, प्रदास्यते। श्रीमहाकालेश्वरमन्दिरप्रबन्धसमित्याः प्रशासकः प्रथमकौशिकनामकः उक्तवान् यत् सवारी परम्परानुसारं पूर्णगौरवेण च आयोजिताऽभविष्यति।
एषा सवारी श्रीमहाकालेश्वरमन्दिरात् आरभ्य महाकालचौराहं, गुदरीचौराहं, बक्षीबाजारं, कहारवाडीप्रदेशं च गत्वा रामघाटं यास्यति। तत्र क्षिप्रानद्याः जलेन भगवानश्रीचन्द्रमौलीश्वरस्य पूजनं कृत्वा यात्रा रामघाटात् गणगौरद्वारं, मोढकीधर्मशालां, कार्तिकचतुष्कं, खातिकामन्दिरं, सत्यनारायणमन्दिरं, ढाबारोडमार्गं, टंकीचौराहं, छत्रीचतुष्कं, गोपालमन्दिरं, पटनीबाजारं, गुदरीबाजारं च गत्वा पुनः श्रीमहाकालेश्वरमन्दिरं प्रत्यागमिष्यति।
---------------
हिन्दुस्थान समाचार