चीनः अमेरिकीपौतेषु विशेषेण 'बंदरगाह शुल्कः एकस्मै वर्षाय निलंबते
बीजिंगम्, 10 नवंबरमासः (हि.स.)।चीनदेशस्य परिवहनमन्त्रालयेन सोमवासरे अमेरिकी-उद्यमसंस्थाजनप्रभृतिभिः स्वाम्यमानानि वा तेषां द्वारा सञ्चालितानि वा नौकानां प्रति विशेषपौतस्थानकशुल्कं एकवर्षपर्यन्तं निलम्बितं भविष्यति इति घोषणां कृता। एतत् शुल्कनिलम्बन
चीन के राष्ट्रपति शी जिनपिंग


बीजिंगम्, 10 नवंबरमासः (हि.स.)।चीनदेशस्य परिवहनमन्त्रालयेन सोमवासरे अमेरिकी-उद्यमसंस्थाजनप्रभृतिभिः स्वाम्यमानानि वा तेषां द्वारा सञ्चालितानि वा नौकानां प्रति विशेषपौतस्थानकशुल्कं एकवर्षपर्यन्तं निलम्बितं भविष्यति इति घोषणां कृता। एतत् शुल्कनिलम्बनं सोमवासरे देशीयसमयानुसारं मध्याह्ने एकनिमेषाधिकैकवादने (१:०१) आरभ्य प्रभावि अभवत्।

संवादसंस्था शिन्हुआ इत्यनेन सूचितं यत् परिवहनमन्त्रालयेन तस्याः परीक्षायाः अपि एकवर्षीयनिलम्बनं कृतं, यस्याः अन्तर्गतं ज्ञातव्यम् आसीत् यत् “अमेरिकीधारा ३०१” इति नामिका चीनदेशस्य नौवहननौकानिर्माणक्षेत्रयोः तथा सम्बन्धितौद्योगिकापूर्ति-शृंखलायाः सुरक्षां विकासहितं च कथं प्रभावितुं शक्नोति इति।

मन्त्रालयेन उक्तं यत् एते सर्वे उपायाः अद्यतनमलेशियादेशस्य कुआलालम्पुरनामपुर्यां सम्पन्नायां चीन-अमेरिकायोः आर्थिक-व्यापारवार्तायां निष्पन्नसहमत्यनुसारं स्वीकृताः सन्ति। विशेषगौरवणीयं यत् चीनदेशेन एषा घोषणा तदा एव कृता, यदा अमेरिकीराष्ट्रपतिः डोनाल्ड् ट्रम्प् प्रशासनं चीनस्य नौकानिर्माणउद्योगविषये प्रवर्तमानां परीक्षां निलम्बितवन्तः।

अमेरिकादेशेन धारा ३०१ अन्तर्गतं आरोपितान् तान् शुल्कान् अपि स्थगितान् यः चीननौकाभ्यः अमेरिकीबन्दरगाहेषु आरोप्यमाणेषु विशेषशुल्केषु सम्बन्धितः आसीत्। एते शुल्काः अमेरिकीबन्दरगाहेषु चीननौकाभ्यः ग्राह्यमाणेषु अतिरिक्तशुल्केषु संबद्धाः आसन्।

चीनदेशस्य विदेशमन्त्रालयस्य प्रवक्त्रा उक्तं यद् “एषः निलम्बनं उभयदेशयोः सहयोगं सुदृढीकर्तुं वैश्विकापूर्ति-शृंखलानां स्थिरीकरणं च साधयितुं प्रयासः अस्ति। अस्माकं अपेक्षा अस्ति यत् अमेरिकादेशः अपि एवं सदृशं सकारात्मकम् उपायं स्वीकरोति।”

अमेरिकीयव्यापारप्रतिनिधिकार्यालयेन चीनदेशस्य अस्य निर्णयस्य स्वागतं कृतम्।

---------------

हिन्दुस्थान समाचार