Enter your Email Address to subscribe to our newsletters

बीजापुरम्, 10 नवंबरमासः (हि.स.)।छत्तीसगढ़राज्यस्य बीजापुरजनपदे इन्द्रावती व्याघ्रआरक्षणे व्याघ्राणां परिज्ञानं गणनं च अधुना कृत्रिमबुद्ध्या (एआइ इत्याख्यया) प्रौद्योगिक्याः साहाय्येन भविष्यति। यत्पूर्वं कार्यं चित्रग्राहकयन्त्रैः (कैमरा ट्रैप) मानवविश्लेषणेन चैव सम्पन्नं भवति स्म, अधुना तु यन्त्राध्ययनं गभीराध्ययनं च आधारितानि मॉडेल्स् उपयुज्य प्रत्येकस्य व्याघ्रस्य धारिपट्टानां विशेषपाटलम् अनुसृत्य तस्य डिजिटलपरिचयः (टाइगर आइडी) निर्मीयते। एषा प्रणाली न केवलं गणनां निखिलतरां करोति, अपि तु शिकारकृत्येषु संलग्नानां चेष्टाः वास्तविककाले निरीक्षितुं शक्नोति।
प्राप्तसूचनानुसारं इन्द्रावतीव्याघ्रआरक्षणं सजीवसंरक्षणस्य नवयुगे प्रविष्टम् अस्ति। इदानीन्तनमासेषु नक्सलीकृत्येषु शमनं जातम्, सुरक्षा दलानां गश्चनवृद्ध्या वनसेवकाः बहूनां वर्षाणां पश्चात् आरक्षणस्य कोरक्षेत्रं प्रति गन्तुं शक्नुवन्ति। तत्र चित्रग्राहकयन्त्रेषु व्याघ्राणां शावकानां च नूतनानि चित्राणि प्राप्तानि। अधुना एआइआधारितपरिज्ञानप्रणाल्या प्रत्येकस्य व्याघ्रस्य डिजिटलप्रोफाइल् सज्जीक्रियते। वनविभागः स्थानीययुवकान् इकोवारियर् इति नाम्ना शिक्षयति, ये पगचिह्नानि, मलम्, गमनमार्गं च सम्बन्धितसूचनाः मोबाइलअनुप्रयोगेन साझां कुर्वन्ति, यत् क्षेत्रीयदत्तांशः शीघ्रं विश्लेषणार्थं लभ्यः स्यात्।
राष्ट्रीयव्याघ्रसंरक्षणप्राधिकरणेन (एनटीसीए) वन्यजीवसंस्थानस्य (डब्लूआइआइ) वनविभागस्य च सहयोगेन सन् २०१८ तमे वर्षे प्रथमं गणनायां एआइप्रौद्योगिकी उपयुज्यत। तस्मिन् काले एषा केवलं चित्रग्राहकछवीनां परिचयदत्तांशसंग्रहपर्यन्ता आसीत्। अधुना तु २०२५ तमे वर्षे एषा प्रौद्योगिकी अतीव विकसिताऽभवत्। आधुनिकाः एआइमॉडेलाः अधुना व्यक्तिगतव्याघ्रपरिचयात् आरभ्य पूर्वानुमानमूलकनियोजनपर्यन्तं, गश्चमार्गसुझावात् अपराधपूर्वसूचनापर्यन्तं संरक्षणं तीक्ष्णं शीघ्रं च कुर्वन्ति।
इन्द्रावतीव्याघ्रआरक्षणस्य निर्देशकः श्री सुदीपबल्गा नामकः सोमवासरे उक्तवान् यत् जनवरी २०२६ तमे मासे आरक्षणे व्याघ्रपरिचयगणनायाः कार्यं प्रारभ्यते। एआइ अधुना केवलं दत्तांशं न पठति, किन्तु वनस्य भाषामपि बोधयति। एषः मॉडेलः प्राचीनशिकारकृत्येषु, वायुमानपरिवर्तनादिषु, पर्यावरणीयकारकेषु, मानवीयकृत्येषु च विश्लेषणं कृत्वा पूर्वमेव अनुमानं करोति यत् कस्यां दिशि भविष्ये शिकारस्य सम्भावना अधिका स्यात्।
तस्य विवेचनं यथाऽस्ति —
ट्रेलगार्ड एआइ प्रणाली : एतेषां कैम्राणां अन्तर्गते सेन्सराः गतिकं ज्ञात्वा संशयास्पदचेष्टां दृष्ट्वा ३०–४० सेकण्डेषु वनाधिकाऱिभ्यः त्वरितं सूचनां प्रेषयन्ति।
पास (Protection Assistant for Wildlife Security) अनुप्रयोगः : अयं अनुप्रयोगः स्थलरूपं, पशुमार्गान्, गश्चमार्गांश्च विश्लेष्य वनकर्मभ्यः उत्तमान् सुरक्षितांश्च मार्गान् निर्दिशति।
मानवव्याघ्रसंघर्षनिवारणम् : एआइचित्रग्राहकाः व्याघ्रस्थानं निरीक्षन्ति, मानवीयग्रामाणां समीपे तेषां उपस्थितौ त्वरितं चेतावनीं प्रेषयन्ति, येन न केवलं मानवजीवनं, किन्तु पशुधनं व्याघ्राश्च सर्वे सुरक्षिताः भवन्ति।
एवं कृत्रिमबुद्धेः साहाय्येन व्याघ्रपरिचयः संरक्षणं च इदानीं निखिलतरं शीघ्रतरं च सुरक्षिततरं जातम्।
---------------
हिन्दुस्थान समाचार