Enter your Email Address to subscribe to our newsletters

वॉशिंगटनम्, 10 नवम्बरमासः (हि.स.)।अमेरिकायाः राष्ट्रपतिः डोनाल्ड ट्रंपः रविवासरे उद्घोषितवन्तः यत् ते जॉन कोएल इति नामकं पुरुषं बेलारूसदेशस्य विशेषदूतत्वेन नामांकितवन्तः। कोएलनामकः सः इदानीं बेलारूसदेशात् कारागारस्थितानां जनानां मोचने महत्वपूर्णं कार्यं कृतवान्। ट्रंपमहाशयः उक्तवन्तः यत् सः अधुना अपि अधिकानां कारागृहनिबद्धानां विमोचनार्थं प्रयत्नं करिष्यति।
ट्रंपप्रशासनम् अद्यतनमासेषु बेलारूसदेशेन सह राजनैतिकसंपर्कान् शीघ्रीकृतवान् तथा अस्मिन् वर्षे मिन्स्कनगरं प्रति कतिपयानि अमेरिकीप्रतिनिधिमण्डलानि प्रेषितवान्। बेलारूसदेशस्य राष्ट्रपतिः अलेक्ज़ेंडर लुकाशेंको इति, रशनदेशस्य राष्ट्रपतिः व्लादिमीर पुतिनस्य निकटसहायः इति प्रसिद्धः।
सितम्बरमासे ट्रंपमहाशयस्य आग्रहात् बेलारूसदेशेन द्विपञ्चाशत् कारागृहनिबद्धाः विमोचिताः। ट्रंपपूर्वमेव लुकाशेंकं प्रति चतुर्दशशतानां निबद्धानां विमोचनार्थं प्रार्थितवन्तः, येषां विषये सः “बंधकाः” इति उक्तवान्।
स्वस्य ‘ट्रुथ सोशल्’ इत्याख्ये जाले ट्रंपः लिखितवान् यज्जॉन कोएल अद्यावधि शतं निबद्धान् विमोचितवान्, अधुना च पञ्चाशताधिकानां विमोचनाय प्रयतते।” सः पुनः उक्तवान् यद्“अहम् अत्यन्तमाननीयं बेलारूसराष्ट्रपतिं अलेक्ज़ेंडर लुकाशेंकोनामानं पूर्वमेव धन्यवादं ददामि, यः अधिकानां निबद्धानां विमोचनं विचारयति।
सितम्बरमासे जाता सा विमोचनक्रिया लुकाशेंकेन कृतासु सर्वासु बृहत्तमा क्षमाप्रदानेति मता। विशेषज्ञाः मन्यन्ते यत् लुकाशेंको अमेरिकायाः सह सम्बन्धान् पुनः सुदृढीकरणाय प्रयत्नं करोति, यतः सः दीर्घकालात् एकाकीकरणेन प्रतिबन्धैः च पीडितः आसीत्।
स्मरणीयं यत् फरवरी 2022 तमे वर्षे अमेरिकायाः सरकारा मिन्स्कनगरस्थं स्वदूतावासं निरुद्धवती, यदा पुतिननामकः रशनराष्ट्रपतिः बेलारूसदेशभूमिं उपयुज्य यूक्रेनदेशे विशालं सैन्यआक्रमणं प्रारब्धवान्।
------------------
हिन्दुस्थान समाचार