भाजपायाः पदयात्राः अद्यारभ्य शुभारब्धाः, मुख्यमंत्रिणं समेत्य प्रदेश सर्वकार मंत्रिणः सम्मेलिष्यन्ते
लखनऊ,10 नवम्बरमासः (हि.स.)।भारतीयजनतापक्षेन सरदारपटेलस्य शतपञ्चाशदुत्तरशततमजन्मजयन्तीसमारोहस्य अभियानान्तर्गतमद्यादारभ्य उत्तरप्रदेशराज्ये ऐक्यमार्गपदयात्राः प्रारम्भः भविष्यति। विधानसभास्तरे आयोजिताः एताः ऐक्यमार्गपदयात्राः उत्तरप्रदेशे नवम्बरमासस
मुख्यमंत्री योगी आदित्यनाथ


लखनऊ,10 नवम्बरमासः (हि.स.)।भारतीयजनतापक्षेन सरदारपटेलस्य शतपञ्चाशदुत्तरशततमजन्मजयन्तीसमारोहस्य अभियानान्तर्गतमद्यादारभ्य उत्तरप्रदेशराज्ये ऐक्यमार्गपदयात्राः प्रारम्भः भविष्यति। विधानसभास्तरे आयोजिताः एताः ऐक्यमार्गपदयात्राः उत्तरप्रदेशे नवम्बरमासस्य दशमदिनात् विंशतितमदिनपर्यन्तं जनमानसं प्रति सरदारपटेलमहाशयस्य ऐतिहासिकनिर्णयान् सह राष्ट्रीयैक्यभावस्य सुदृढीकरणं कुर्वन्त्यः ग्रामेषु, गलिषु, नगरेषु च प्राप्नुवन्ति।

मुख्यमन्त्री योगीआदित्यनाथः, प्रदेशभाजपाध्यक्षः भूपेन्द्रसिंहचौधरी, उपमुख्यमन्त्रिणौ केशवप्रसादमौर्य ब्रजेशपाठक च, प्रदेशसर्वकारस्य मन्त्रीगणः, सांसदाः, विधायकाः च पदयात्राणां नेतृत्वं करिष्यन्ति।

प्रदेशमहामन्त्री अभियानस्य च प्रदेशसंयोजकः संजयराय नामकः उक्तवान् यत् सोमवासरे मुख्यमन्त्री योगीआदित्यनाथः गोरखपुरविधानसभायां, प्रदेशभाजपाध्यक्षः भूपेन्द्रसिंहचौधरी अयोध्याजिलस्य गोसाईगंजविधानसभायां ऐक्यमार्गस्य नेतृत्वं करिष्यतः। उपमुख्यमन्त्री केशवप्रसादमौर्य लखनऊजिलस्य बीकेटीविधानसभायां, ब्रजेशपाठकः कानपुरकैंटविधानसभायां च ऐक्यमार्गपदयात्राणां नेतृत्वं करिष्यतः।

संजयरायः अवदत् यत् प्रदेशसर्वकारस्य मन्त्री ए.के.शर्मा जौनपुरजिलस्य जाफराबादविधानसभायां, नन्दगोपालगुप्तनन्दी मीरजापुरजिलस्य मंझवाविधानसभायां, जयवीरसिंहः आग्राछावनीविधानसभायां, दानिशआज़ादअंसारी बलियाजिलस्य रसडाविधानसभायां, बेबीरणीमौर्य बबीनाविधानसभायां, बलदेवसिंहोेलखः रामपुरजिलस्य मिलकविधानसभायां, कपिलदेवाग्रवालः मेरठजिलस्य किठौरविधानसभायां च सम्मिलिताः भविष्यन्ति।

श्रीरायः उक्तवान् यत् प्रदेशोपाध्यक्षः पंकजसिंहः बुलन्दशहरजिलस्य सिकन्दराबादविधानसभायां, कान्ताकर्दमः गाजियाबादस्य मोदीनगरविधानसभायां, राज्यसभासदस्या संगीता बलवन्तः गाजीपुरजिलस्य जखनियाविधानसभायां, अविनाशचौहानः फतेहपुरजिलस्य अयाहशाहविधानसभायां, जिलापरिषदध्यक्षः मनोजरायः मऊजिलस्य मोहम्मदाबादगोहानविधानसभायां च ऐक्यमार्गपदयात्रासु सहभागिनो भविष्यन्ति।

हिन्दुस्थान समाचार