उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगी आदित्यनाथस्य महद् घोषणम् — उपराज्ये सर्वेषु विद्यालयेषु ‘वन्दे मातरम्’ अनिवार्यं भविष्यति
लखनऊनगरम्/गोरखपुरम्, 10 दिनांक: नवम्बरमास: (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे गोरखपुरे सम्पन्नायां एकता पदयात्रायाम् प्रदेशस्य सर्वेषां विद्यालयानां विषये महत् घोषणां कृतवान्। सः अवदत् — “उत्तरप्रदेशे सर्वेषु विद्यालयेषु
कार्यक्रम में बोलते हुए मुख्यमंत्री


लखनऊनगरम्/गोरखपुरम्, 10 दिनांक: नवम्बरमास: (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः सोमवासरे गोरखपुरे सम्पन्नायां एकता पदयात्रायाम् प्रदेशस्य सर्वेषां विद्यालयानां विषये महत् घोषणां कृतवान्। सः अवदत् — “उत्तरप्रदेशे सर्वेषु विद्यालयेषु ‘वन्दे मातरम्’ इत्यस्य नित्यं च अनिवार्यं च गायनं सुनिश्चितं भविष्यति।”

मुख्यमन्त्रिणा उक्तम् — “राष्ट्रात् श्रेष्ठं किमपि नास्ति। ‘वन्दे मातरम्’ अस्माकं सांस्कृतेः परिचय: राष्ट्रीयभावनायाः च प्रतीकम् अस्ति। तस्य विरोधः निरर्थकः एव। राष्ट्रात् परं किञ्चित् नास्ति, किन्तु केषाञ्चन जनानां कृते मतं धर्मश्च राष्ट्रात् उपरि: दृश्यते।”

योगी-आदित्यनाथः स्मारयत् यत् — “वन्दे मातरम्” गीतस्य स्थापनां १५० वर्षाणि अतीतानि। तद् परिवर्तयितुं कश्चन प्रयासः सफलो न भविष्यति।”

मुख्यमन्त्री, रानीलक्ष्मीबाय्याः उद्यानस्थायां सभायां जनान् संबोध्य एवमुक्तवान् — “जात्या भाषया वा भेदं कर्तुं प्रयत्नः क्रियते, नूतनाः ‘जिन्नाः’ उत्पादयितुं यत्नः अपि दृश्यते। भारतदेशे पुनः कश्चन ‘जिन्ना’ न भविष्यति। यदि कोऽपि ‘जिन्ना’ जायते, तं भूमौ निवेशयितव्यम्।”

अन्ते योगी-आदित्यनाथः उक्तवान् — “अहं सरदारपटेलं नमस्करोमि। जगति सर्वाधिका उच्चप्रतिमा पटेलस्य अस्ति, सा प्रतिमा भारतस्य ऐक्यस्य मूर्तिः, य: ‘लौहपुरुष’ इति प्रसिद्धः सम्पूर्णं राष्ट्रं मार्गदर्शनं ददाति।”

---

हिन्दुस्थान समाचार / Dheeraj Maithani