वित्तीयसाक्षरता सुगमा दैनिकी जीवनशैली
हरिद्वारम्, 10 नवंबरमासः (हि.स.)।एसएमजेएनमहाविद्यालये सोमवासरे आन्तरिकगुणवत्ताआश्वासनप्रकोष्ठेन वाणिज्यसंकायेन सह राष्ट्रीयप्रतिभूति-बाजारसंस्थानस्य संयुक्ततत्वाधानेन युवा-नागरिकाणां कृते वित्तीयशिक्षायाः विषये द्विदिवसीयः संगोष्ठी-कार्यक्रमः आयोजि
सेमिनार को सम्बोधित करते हुए


हरिद्वारम्, 10 नवंबरमासः (हि.स.)।एसएमजेएनमहाविद्यालये सोमवासरे आन्तरिकगुणवत्ताआश्वासनप्रकोष्ठेन वाणिज्यसंकायेन सह राष्ट्रीयप्रतिभूति-बाजारसंस्थानस्य संयुक्ततत्वाधानेन युवा-नागरिकाणां कृते वित्तीयशिक्षायाः विषये द्विदिवसीयः संगोष्ठी-कार्यक्रमः आयोजितः अभूत्।

उद्घाटनसत्रे कार्यक्रमस्य अध्यक्षतां वहन् महाविद्यालयस्य प्राचार्यः प्रोफेसरः सुनीलबत्रा इत्यनेन छात्रेभ्यः वित्तीयसाक्षरतातत्त्वं विवृण्वता उक्तं यत् वित्तीयसाक्षरता नित्यजीवनं सुलभं कर्तुं महत्त्वपूर्णा सोपानिका अस्ति। तेन छात्रान् साइबर-अपराधस्य विषये अपि अवगतान् कृत्वा तादृशात् ठगेः सावधानत्वेन स्थितुं उपदिष्टम्।

अस्मिन् अवसरि प्राचार्येण प्रोफेसरेण सुनीलबत्रेण कार्यक्रमे उपस्थितान् मुख्यवक्तारं राजीवजैनं (सेबीस्मार्ट-प्रशिक्षकं) तस्य च सहयोगिनौ जलजजैनं प्रतीककश्यपं च माल्येन पूजयित्वा स्वागतं कृतम्।

तांत्रिकसत्रे राजीवजैनेन सेबीसम्बन्धिनि विस्तृतया जानकारी प्रदत्ता, छात्रेभ्यः च निवेशस्य महत्त्वं अवबोधितम्। सः अवदत् यत् सम्यक् समये सम्यक् स्थाने च कृतं निवेशं भविष्यं सुरक्षितं कर्तुं समर्थं भवति।

कार्यक्रमस्य संयोजकमण्डले डॉ पूर्णिमा-सुन्दरियाल्, डॉ पल्लवी, डॉ मीनाक्षीशर्मा, भव्या-भगत इत्येते उपस्थिताः आसन्।

कार्यक्रमे दिव्यांशुनेगी, दिव्यांशु, अञ्जलिसैनी, विकासचौहान इत्यादयः अनेके छात्रच्छात्राश्च अतिविशेषेण उत्साहिताः सन्तः सक्रियतया सहभागिनः अभवन्।

हिन्दुस्थान समाचार