Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 10 नवंबरमासः (हि.स.)।एसएमजेएनस्नातकोत्तरमहाविद्यालयस्य प्राङ्गणे अद्य प्रधानमन्त्रिणा प्रवर्तितस्य “टी बी मुक्तभारत अभियान ३.०” इत्यस्य अन्तर्गतं विशेषकार्यक्रमः आयोजितः, यस्मिन् “निक्षयमित्रयोजना” इत्यस्य अधीनतया द्विशतं पोषणकिट् क्षयरोगिणेभ्यः वितरितानि।
कार्यक्रमस्य अध्यक्षतां अखिलभारतीयअखाडापरिषदः तथा माँ मनसादेवीमन्दिरट्रस्टस्य अध्यक्षः श्रीमहन्तः डॉ रविन्द्रपुरीमहाराजः अकुर्वत्। कार्यक्रमे महाविद्यालयस्य प्राचार्यः प्रोफेसरः सुनीलबत्रा, मुख्यचिकित्साधिकारी डॉ आरकेसिंहः, आरोग्यविभागस्य टीम् च उपस्थिताः आसन्।
कार्यक्रमे भाषमाणः श्रीमहन्तः डॉ रविन्द्रपुरीमहाराजः अवदत् — “निक्षयमित्रयोजनायाः सार्थकफलानि अद्य प्रत्यक्षरूपेण दृश्यन्ते। यदा समाजस्य विविधभागाः मिलित्वा क्षयरोगिणां सहाय्यं कुर्वन्ति तदा रोगेण सह संघर्षः सुगमः भवति। आशास्महे यत् शीघ्रमेव भारतदेशः टी बी मुक्तराष्ट्ररूपेण प्रतिष्ठां प्राप्स्यति।” सः सामाजिकसंघटनानि च सामान्यजनान् च जनभागीदारीं वर्धयितुं आग्रहं कृतवान्।
मुख्यचिकित्साधिकारी हरिद्वारजनपदस्य डॉ आरकेसिंहः उक्तवान् — “एते पोषणकिट् पंचायतीअखाडः श्रीनिरञ्जनी, माँ मनसादेवीमन्दिरट्रस्ट्, एसएमजेएनस्नातकोत्तरमहाविद्यालयश्च मिलित्वा निर्माय वितरितवन्तः। निक्षयमित्रयोजनायाः अधीनतया न केवलं पोषणसहाय्यमेव लभ्यते, अपि तु चिकित्सासेवा, व्यवसायिकप्रशिक्षणं च अपि उपलब्धं भवति। समये उपचारः यथोचितमार्गदर्शनं च क्षयरोगिणां स्वस्थजीवनाय सहायकरं भवति।”
प्राचार्यः प्रो सुनीलकुमारबत्रा अवदत् यत्“क्षयरोगिणां प्रति भावनात्मकसम्बन्धः गोदग्रहणरूपेण च यः प्रयासः कृतः, सः रोगिणां उत्साहं वर्धयति।” सः विशेषतः “टी बी चैम्पियन” सोनीनाम्नः उदाहरणं दत्वा उक्तवान् यत् तस्या संघर्षकथा अन्येषां रोगिणां कृते प्रेरणास्रोतः जाता। तेन उक्तं यत् माँ मनसादेवीमन्दिरट्रस्टः तथा पंचायतीअखाडः श्रीनिरञ्जनी निरन्तरं टी बी उन्मूलनाय सहयोगं कुर्वतः स्तः।
महन्तमहाशयस्य नेतृत्वे बहवः रोगिणः गोदग्रहणेन स्वीकृताः, येन महाविद्यालयस्य सामाजिकसरोकारः दृढतरः अभवत्।
जिलाकार्यक्रमसमन्वयकः उपमुख्यचिकित्साधिकारी डॉ रमेशकुमारः उक्तवान् — “टी बी रोगस्य समये उपचारः जीवनरक्षणसदृशः अस्ति, समुदायः अपि सजगः भवेत्।”
कार्यक्रमे आरोग्यकर्मिणः सर्वे एकस्वरेण उक्तवन्तः यत् “टी बी इत्यस्य युद्धे केवलं औषधिमात्रा न पर्याप्ता, अपि तु पौष्टिकाहारः, पारिवारिकः सामाजिकश्च समर्थनं, स्वरोजगारव्यवसायिकसहाय्यं च अतीव आवश्यकम्।”
डॉ हेमन्तखर्कवालः अपि आह — “सर्वेषां कर्तव्यं अस्ति यत् क्षयरोगिणेभ्यः भावनात्मकं सहयोगं दद्यात् तथा च तेषां कृते पौष्टिकाहारं उपलब्धं करोतु, येन ते शीघ्रं स्वास्थ्यम् आप्नुयुः।”
अस्मिन् कार्यक्रमे वरिष्ठोपचारनियन्ता डॉ मोहम्मदसलीम्, डॉ हेमन्तखर्कवालः, सौरभकुमारः, दिनेशपन्तः, अवनीशः, मोहम्मदसलीम्, सुशीललखेड़ः, अखिलेशजोशी इत्येते प्रमुखाः उपस्थिताः आसन्। तेषां सह अनेकाः आचार्याः, छात्राः, स्थानिकसमाजसेविनश्च उपस्थिताः आसन्, ये सर्वे अस्य प्रयासस्य प्रशंसां कृतवन्तः।
हिन्दुस्थान समाचार