आईआईटी-खड्गपुरस्य निदेशकः जर्मनीदेशे भारतस्य प्रतिनिधित्वं कृतवान्।
बर्लिनदेशम्/खड्गपुरम्, 10 नवम्बरमासः (हि.स.)।भारतीय-प्रौद्योगिकी-संस्थानस्य (आईआईटी) खड्गपुरस्य निदेशकः प्राध्यापकः सुमनः चक्रवर्ती जर्मनीदेशस्य राजधानी-बर्लिननगरे आयोजिते प्रतिष्ठिते “फॉलिंग-वॉल्स-विज्ञानसम्मेलन-२०२५” इत्यस्मिन् भारतस्य प्रतिनिधित
आईआईटी खड़गपुर के निदेशक ने जर्मनी में किया भारत का प्रतिनिधित्व


आईआईटी खड़गपुर के निदेशक ने जर्मनी में किया भारत का प्रतिनिधित्व


आईआईटी खड़गपुर के निदेशक ने जर्मनी में किया भारत का प्रतिनिधित्व


आईआईटी खड़गपुर के निदेशक ने जर्मनी में किया भारत का प्रतिनिधित्व


बर्लिनदेशम्/खड्गपुरम्, 10 नवम्बरमासः (हि.स.)।भारतीय-प्रौद्योगिकी-संस्थानस्य (आईआईटी) खड्गपुरस्य निदेशकः प्राध्यापकः सुमनः चक्रवर्ती जर्मनीदेशस्य राजधानी-बर्लिननगरे आयोजिते प्रतिष्ठिते “फॉलिंग-वॉल्स-विज्ञानसम्मेलन-२०२५” इत्यस्मिन् भारतस्य प्रतिनिधित्वं कृतवान्। एतत् सम्मेलनं विश्वस्तरे वैज्ञानिक-नवोन्मेषं, नीतिगत-संवादं च, वैश्विक-सहयोगं च प्रोत्साहयन् प्रमुखः एकः मंचः इति गण्यते।

अस्य वर्षस्य सम्मेलनस्मिन् प्रो. चक्रवर्ती एव एकः भारतीय-शैक्षणिक-संस्थानस्य शिक्षाविद्-प्रमुखः आसीत्, यस्मै आमन्त्रणं प्रदत्तम्।

तस्मिन् शिखर-सम्मेलनस्मिन् नोबेलपुरस्कार-प्राप्ताः वैज्ञानिकाः,वैश्विकनीतिनिर्मातारः, उद्योगजगतः अग्रणी-व्यक्तयः, नवोन्मेषकाः, विश्वविद्यालयानां च शीर्ष-प्रतिनिधयः एकत्रिता आसन्। विश्वविद्यालय-कुलपतिनां वैश्विकसंवादसत्रे प्राध्यापकः सुमनः चक्रवर्ती आई.आई.टी.-खड्गपुरस्य अकादमिक-उत्कृष्टतां, बहुविषयक-शोधन-संस्कृतिं, नवोन्मेष-केन्द्रित-दृष्टिकोणं च प्रस्तुतवान्।

सः अवदत् यत् संस्थानं शिक्षायाः, अनुसंधानस्य, तन्त्रज्ञान-नवोन्मेषस्य च सशक्तीकरणाय अन्ताराष्ट्रीय-सहयोगं नूतनां दिशां ददाति।

सम्मेलन-काले प्रो. चक्रवर्ती बहुभिः वैश्विकविज्ञाननेतृभिः नीतिनिर्मातृभिः च सह द्विपक्षीयं संवादं कृतवान्।

तत्र फॉलिंग-वॉल्स-विज्ञान-प्रतिष्ठानस्य मुख्यकार्यकारी-अधिकारी तथा प्रबन्ध-निदेशकः एण्ड्रियास् के. कॉस्मिडिस् इत्यनेन सह आई.आई.टी.-खड्गपुरे विश्वस्तरीयं विज्ञान-नेतृत्व-कार्यक्रमं आयोजयितुं सम्भावनासु चर्चाः जाता।

अपरं सः मेक्सिको-देशस्य उपसचिवा (मानवीय-वैज्ञानिक-अनुसंधान-विभागे) डा. वायोलेटा वास्केज्-रोजास् तथा जर्मनी-देशे स्थितः मेक्सिको-राजदूतः महामहिम फ्रान्सिस्को क्विरोगा इत्येताभ्यां सह भारत–मेक्सिको-विज्ञान-तन्त्रज्ञान-सहकारस्य सुदृढीकरणे विषये विचारविमर्शं कृतवान्।

एतस्मिन् समये भारतीय-दूतावासस्य (बर्लिन) विज्ञान-परामर्शदाताः डा. रामानुज बनर्जी अपि उपस्थितः आसीत्।

जर्मनीदेशे स्थितयोः एफ़एआईआर (एण्टिप्रोटॉन–आयोन–अनुसन्धान–केन्द्रे) तथा डीईएसवाई (जर्मन–इलेक्ट्रॉन–सिंक्ट्रोट्रॉन–संस्थाने) इत्येतयोः प्रतिष्ठितयोः संस्थयोः शीर्षवैज्ञानिकैः—प्राध्यापकः थॉमस निल्सन्, श्री जोर्ग ब्लाउरोक्, डा. फ्राङ्क् लेह्नर् इत्यैः सह यत् सम्मेलनं सम्पन्नम्, तस्मिन् भारत–जर्मनी–संयुक्त–अनुसन्धान–परियोजनानां विषये तथा आई.आई.टी.-खड्गपुरस्य प्लैटिनम्–जयन्त्याः अवसरे प्रति कृतस्य संधेः (एम्.ओ.यू.) पुनः पुष्टि–विषये चर्चाः अभवन्।

प्राध्यापकः चक्रवर्ती अवदत्—

“आई.आई.टी.-खड्गपुरस्य तथा भारतस्य प्रतिनिधित्वं कर्तुं मम कृते अतीव गौरवस्य विषयः अस्ति। फॉलिंग-वॉल्स् नाम्नि सम्मेलन–मञ्चे प्रदर्शितः सहयोगः तथा नवोन्मेषस्य भावना अस्माकं तस्मिन् संकल्पे अधिकं दृढतां ददाति, यतः आई.आई.टी.-खड्गपुरं विज्ञानप्रौद्योगिकीसामाजिकस्य परिवर्तनस्य च वैश्विकं केन्द्रं कर्तुं वयं निष्ठां वहामः।”

हिन्दुस्थान समाचार / Dheeraj Maithani