बांग्लादेश प्रीमियर लीग इत्यस्मिन् द्वादशवर्षानन्तरं पुनः भविष्यति क्रीडकानां विक्रयप्रक्रिया
ढाका, 13 नवंबरमासः (हि.स.)। बाङ्ग्लादेशप्रिमियरलीग् (बीपीएल्) मध्ये द्वादशवर्षानन्तरं क्रीडकानां नीलामीप्रणाली पुनः प्रत्यागच्छति। बीपीएल् संचालनपरिषदया बुधवासरे तस्याः अधिकृतघोषणा कृता। स्पर्धायाः आद्ययोर्द्वयोः ऋतुषु (२०१२ तथा २०१३ तमे) क्रीडकाना
बीपीएल मैच का दृश्य


ढाका, 13 नवंबरमासः (हि.स.)। बाङ्ग्लादेशप्रिमियरलीग् (बीपीएल्) मध्ये द्वादशवर्षानन्तरं क्रीडकानां नीलामीप्रणाली पुनः प्रत्यागच्छति। बीपीएल् संचालनपरिषदया बुधवासरे तस्याः अधिकृतघोषणा कृता। स्पर्धायाः आद्ययोर्द्वयोः ऋतुषु (२०१२ तथा २०१३ तमे) क्रीडकानां विक्रयणम् आसीत्, ततः परं नवसु परवर्तिषु संस्करणेषु क्रीडकानां चयनं द्राफ्ट्-प्रणाल्या एव क्रियते स्म।

विक्रयप्रक्रिया नवम्बर् मासस्य त्रयोविंशतितमे दिने ढाकानगर्याः एकाेऽतिथिशालायां भविष्यति, यस्मिन् पञ्च फ्रेञ्चाइजी — ढाका कैपिटल्स्, चट्टोग्राम् रॉयल्स्, राजशाही वारियर्स्, रंगपुर् राइडर्स्, सिलहट् टाइटन्स् — इत्येताः सहभागी भविष्यन्ति। एताः सर्वाः बीपीएलस्य द्वादशमसंस्करणार्थं स्वक्रीडकान् निर्वत्स्यन्ति।

बाङ्ग्लादेशक्रिकेटमण्डलेन बुधवासरे विज्ञप्तिः जारीकृता यत्र उक्तम् — “अस्यां नीलाम्यां नवस्य फ्रेञ्चाइजीस्वामित्वचक्रस्य आरम्भः भविष्यति। पुनर्गठिता पारदर्शिनी च निविदापद्धतिः प्रवर्तयिष्यते, यथा बीपीएल् अन्तरराष्ट्रीयटी–२० फ्रेञ्चाइजीमानदण्डान् अनुरोद्धुं शक्नोति।” नूतनपद्धत्याः अन्तर्गते देशीयाः क्रीडकाः षट्सु वर्गेषु, विदेशी क्रीडकाः पञ्चसु वर्गेषु विभागाः भविष्यन्ति। देशीयक्रीडकानां सर्वोच्चः ‘ए’ वर्गः ५० लाख् टकानां मूलमूल्ये निर्दिष्टः, प्रत्येकबोली ५ लाख् टकानां वृद्ध्या संवर्धिष्यते।विदेशीक्रीडकानां सर्वोच्चवर्गस्य आरम्भमूल्यं ३५,००० अमेरिकाडॉलर् भविष्यति, यत्र प्रत्येकबोली ५,००० डॉलरवृद्ध्या संवर्धिष्यते।

प्रत्येकं फ्रेञ्चाइजीमण्डलं नीलाम्याः पूर्वं द्वौ बाङ्ग्लादेशीयौ क्रीडकौ (ए–बी वर्गयोः) तथा एकं वा द्वौ वा विदेशी क्रीडकौ प्रत्यक्षं अनुबन्धयितुं अर्हति, किन्तु तस्मै बीपीएल् संचालनपरिषदायाः अनुमोदनं आवश्यकं भविष्यति।विक्रयप्रक्रिया द्विधा भविष्यति — प्रथमं देशीयक्रीडकानां, ततः परं विदेशीक्रीडकानां। प्रत्येकं दलं न्यूनातिन्यूनं ११ देशीयक्रीडकान् क्रीणीत, अधिकतमं १५ देशीयक्रीडकानां सम्मिलनं कर्तुं शक्नोति।

प्रत्यक्षं अनुबन्धिताः क्रीडकाः अस्य गणनायां न गण्यन्ते।देशीयक्रीडकानां कृते प्रत्येकदलस्य अर्थान्तरं ४.५ कोटि टकाः भविष्यन्ति (प्रत्यक्षानुबन्धितक्रीडकानां वेतनं विना)। विदेशीक्रीडकानां कृते अधिकतमं व्ययमर्यादा ३.५ लाख् अमेरिकाडॉलर् निर्दिष्टा, यत्र प्रत्यक्षानुबन्धनमपि अन्तर्भवति। प्रत्येकं दलं स्वस्य खेलप्रमुखदले द्वौ चतुर्वा विदेशीक्रीडकान् योजयितुं शक्नोति, किन्तु नीलाम्याः माध्यमेन न्यूनातिन्यूनं द्वौ विदेशीक्रीडकौ क्रीणीतव्यौ।

क्रीडकानां वेतनदानं त्रिषु किश्तासु भविष्यति —

प्रथमं २५% अनुबन्धसमये,

पश्चात् ५५% दलस्य अन्तिमलीगक्रीडापूर्वं,

शेषं २०% प्रतियोगितासमापनानन्तरं त्रिंशद्दिनानां मध्ये। सर्वं वेतनदानं राष्ट्रियराजस्वमण्डलस्य करनियमानुसारं भविष्यति।

विक्रयसमापनात् २४ घण्टान्तराले सर्वदलेषु स्वस्य अन्तिमसंघसूचीं बीपीएल् संचालनपरिषदायै समर्पयितुं अनिवार्यम्। सर्वे अनुबन्धाः बाङ्ग्लादेशक्रिकेटमण्डलस्य मानकत्रिपक्षीयप्रारूपे एव भविष्यन्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता