अंताराष्ट्रिय मंचे काशिष्यते बरेल्याः सुन्दरः कटाहः, ट्रेड फेयरमध्ये दर्शयिष्यते ‘योगीप्रारुपस्य’ क्रांतिः
बरेली, 13 नवंबरमासः (हि.स.)। मुख्यमन्त्रिणः योगिआदित्यनाथस्य ‘लोकल् टु ग्लोबल्’ इति चिन्तनम् ‘एकं जनपदं एकः उत्पादः’ (ओडीओपी) इति योजना च प्रदेशस्य पारम्परिकान् उद्योगान् नूतनां दिशा गतिं च दत्तवन्तौ। यद् बरेलीनगरस्य जरीजरदोजी इति सुनिर्मिता कर्षणक
सुनहरी कढ़ाई


बरेली, 13 नवंबरमासः (हि.स.)। मुख्यमन्त्रिणः योगिआदित्यनाथस्य ‘लोकल् टु ग्लोबल्’ इति चिन्तनम् ‘एकं जनपदं एकः उत्पादः’ (ओडीओपी) इति योजना च प्रदेशस्य पारम्परिकान् उद्योगान् नूतनां दिशा गतिं च दत्तवन्तौ। यद् बरेलीनगरस्य जरीजरदोजी इति सुनिर्मिता कर्षणकला पूर्वं केवलं गलिषु हाटापणेषु च सीमिता आसीत्, सा अद्य अन्तरराष्ट्रीयमञ्चेषु अपि स्वस्य प्रभावशालिनां ख्यातिं स्थापयितुं सज्जा अस्ति।

दिल्लीनगरस्य भारतमण्डपे आरभ्यमाणे ‘इण्डिया इण्टरनेशनल् ट्रेड् फेयर्’ (आईआईटीएफ 2025) नाम्नि मेले अस्याः सुनहरीकलेः सौन्दर्यं द्रष्टुं शक्यं भविष्यति। बरेलीनिर्मिता जरीजरदोजीकला यूरोपदेशे ऑस्ट्रेलियदेशे सिङ्गापुरदेशे खाडिदेशेषु च निरन्तरं प्रियताम् आप्नोति। चमडाजैकेट्स् क्लच् दुपट्टेषु पार्टीवेषगाउनसु च कृता सूक्ष्मकर्षणकला विदेशीग्राहकाणां प्रथमपसन्दः जाता अस्ति।

औद्योगिकोपायुक्तः विकासयादवः गुरुवासरे उक्तवान् यत् अधुना बरेलीनगरतः प्रायः चत्वारिंशत् देशेषु जरीजरदोजीउत्पादानां निर्यातः क्रियते। ओडीओपीयोजनायाः अन्तर्गतं ब्राण्डिंग् डिजाइनिङ् विपणनम् इत्यादिषु महान् सुधारः जातः येन कारीगराः आत्मनिर्भराः भूत्वा उत्कर्षं प्राप्नुवन्ति।

दिल्लीमध्ये आयोज्यमाने अन्ताराष्ट्रियव्यापारमेले अस्मिन् वर्षे उत्तरप्रदेशराज्यस्य पताका बरेलीस्य कारीगरेण सह ऊर्ध्वं लहरिष्यति। जनपदस्य प्रसिद्धाः उद्यमिनः नवाबजरीआर्ट् रश्मिजरीआर्ट् सनमजरीआर्ट् शिखाएण्टरप्राइजेज् कमल् ट्रेडर्स् (शालुसक्सेना) अमनअटायर् प्राइवेट् लिमिटेड् (आतिफखान्) एम्एइण्टरनेशनल् कादरीएण्ड्सन्स् साकिबजरीआर्ट् कुमकुमजरीजरदोजी इत्यादयः स्वस्वान् आकर्षकान् प्रदर्शकस्थानान् स्थापयितुं सज्जाः सन्ति।

अस्मिन् मेलापके अस्याः कलेः तेजसा केवलं बरेलीनगरस्य यशोवृद्धिः न भविष्यति, अपि तु नूतननिर्यातसन्धयः अपि सम्भाव्यन्ते। योगिसरकारायाः प्रयासेन ‘लोकल् टु ग्लोबल्’ इति स्वप्नं अधुना साकारं दृश्यते, बरेलीस्य एषा सुनहरीकला अस्याः प्रगतिः च प्रतीकं जाता अस्ति।------------

हिन्दुस्थान समाचार