Enter your Email Address to subscribe to our newsletters

नवदेहली, १३ नवम्बरमासः (हि.स.)। देहलीराज्यस्य मुख्यमन्त्री रेखागुप्ता गुरुवासरे महाराणा प्रताप (कश्मीरी गेट्) अन्तरराज्यीय लोकयानस्थानकात् हरियाणाराज्यस्य सोनीपत नगरं प्रति देहलीपरिवहननिगमस्य (डी.टी.सी.) नूतनां विद्युत्–लोकयानसेवां हरितध्वजेन प्रेषयामास। मुख्यमन्त्रिणा उक्तम्— “देहली–सोनीपतयोः मध्ये नूतनया अन्तरराज्यीयया लोकयानसेवया आमाकं जनसुविधासंकल्पः अधिकं दृढः जातः। एताः आधुनिकाः, सुरक्षिताः, पर्यावरणानुकूलाः विद्युत्–लोकयानाः राजधानीं च हरियाणाराज्यं च योजयन्त्यः यात्रां सुखदाम्, शीघ्रां, विश्वसनीयां च करिष्यन्ति।”
सा अवदत्—
“पूर्वं देहलीं च समीपराज्यानि च योजयन्ती लोकयानसेवा आसीत्, परन्तु ततः परं निरुद्धा जाता। अधुना देहलीसरकारेण निर्णयः कृतः यत् क्रमशः सर्वेषु पुरातनेषु मार्गेषु लोकयानसेवा पुनः स्थाप्येत। गतसितम्बरमासे उत्तरप्रदेशस्य बडौतनगरं प्रति विद्युतलोकयानसेवा आरब्धा, ततः परं देहलीसोनीपतसेवा अपि तस्मिन् एव दिशि अन्यः अग्रः पादः अस्ति।” तया पुनः उक्तम्—
“देहली–सर्वकारः सततं डी.टी.सी.–वाहिन्यां विद्युत्लोकयानाः सम्मिलयति, यथा सार्वजनिकपरिवहनं पर्यावरणहितं च भवेत्, दूषणमुक्तं च। अस्माकं लक्ष्यं अस्ति यत् शीघ्रमेव देहल्याः सम्पूर्णः सार्वजनिकः परिवहनविभागः शून्य-उत्सर्जनात्मकः भवेत्। एतेन राजधानीप्रदेशे वायुदूषणनियन्त्रणं अधिकं सुदृढं भविष्यति।” अस्मिन् अवसरे देहलीपरिवहनमन्त्री पङ्कजकुमारसिंहः अन्ये च अधिकारीणः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / Dheeraj Maithani